पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. सप्तमः खण्डः ७] छान्दोग्योपनिषत् । १४१ ___ स यः कश्चिदेतदेवं यथोदितमङ्मधुकरतापरले संरक्षणमृग्वेदविहितकर्मपुष्पा. स्य चाऽऽदित्यसंश्रयणं रोहितरूपत्वं चामृतस्य प्रात्रीदिग्गतरश्मिनाडीसं- थतां वसुदेवभोग्यतां तद्विदश्च वसुभिः सहकतां गत्वाऽग्निना मुखेनोपजीवनं दर्शनमात्रेण तृप्तिं स्वभोगावसर उद्यमनं तत्कालापाये च संवेशनं वेद सोऽपि वसुवत्सर्वं तथैवानुभवति ॥ ३ ॥ पाठ कमेणोक्तं ध्येयस्वरूपमनूद्य साधिकारं ध्यानविधि दर्शयति स य इति । वसु- देवभोग्यतां वसुभिर्देवैरुपजीव्यत्वमिति यावत् । एतदित्यस्माकं मधु निदर्शयति । एवंश- ब्दार्थं विशदयति-यथोदितमिति । तथैव श्रुत्युक्तक्रमेणैवेत्यर्थः ॥ ३ ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमता वसूना- मेव तावदाधिपल स्वाराज्यं पर्येता ॥ ४ ॥ इति तृतीयाध्यायस्य षष्ठः खण्डः ॥६॥ A ARAAJana कियन्तं कालं विद्वांस दमतमुपजीवतीत्यच्यते-स विद्वान्याव दित्यः पुर-. स्तापाच्यां दिश्यदेता पश्चात्पतीच्यामरतमेता ताकद्वसनां भोगकालस्तावन्तमेव कालं वसूनामाधिपत्यं स्वाराज्यं पर्येता परितो गन्ता भवतीत्यर्थः । न यथा चन्द्रमण्डलस्थः केवलकर्मी परतन्त्री देवानामनभूतः । किं तबयमाधिपत्यं स्वराड्ावं चाविगच्छति ॥ ४ ॥ इति तृतीयाध्यायस्य षष्ठः खण्डः ॥६॥ भोगकालपरिमाणं प्रश्नपूर्वकं निर्धारयति-कियन्तमिति । आधिपत्यं स्वाराज्यमिति विशेषणयोस्तात्पर्यमाह-न यथेति ॥ ४ ॥ इति तृतीयाध्यायस्य षष्ठः खण्डः ॥ ६॥ - - --metaitrin (अथ तृतीयाध्यायस्य सप्तमः खण्डः।) अथ यद्वितीयममृतं तदुद्दा उपजीवन्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्माद्भपादुयन्ति ॥ २॥ १ ग. घ. ड. ठ. थोक्त मृ । ङ. ढ. थोक्तमेवम । २ ख. ञ. ण. °सक्ष° । ३ ख. अ. °मावत' । ४ प. उ. तिं वसुभो । च. तिं वस्तुभो । a nd