पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३तृतीयाध्याये-- स य एतदेवममतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसं- विशत्येतस्मादूपार्दुदेति ॥ ३॥ अथ यद्वितीयममृतं तद्रुद्रा उपजीवन्तीत्यादि समानम् ॥ १ ॥ २ ॥३॥ प्रथमममृतमधिकृत्य चिन्तनीयमुक्वा द्वितीयममृतमाश्रित्य तद्दर्शयति-अथेति ॥ १॥ ॥ २ ॥ ३ ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्ता- वदक्षिणत उदेतोत्तरतोऽस्तमेता रुदाणामेव तावदा- धिपत्य स्वाराज्यं पर्येता ॥ ४ ॥ इति तृतीयाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत्ततो द्विगुणं कालं दक्षि. णत उदेतोत्तरतोऽस्तमेता रुद्राणां तावद्भोगकालः ॥ ४ ॥ __इति तृतीयाध्यायस्य सप्तमः खण्डः ॥ ७॥ विद्याफलं कथयति-स यावदिति । यावद्वसूनां भोगकालस्ततो द्विगुणो रुद्राणां भोगकालः । यथा प्रथमामृतध्याथिनां वसुभिस्तुल्यो भोगकालस्तथा द्वितीयामृतध्यायिनामपि रुद्रस्तुल्यो भोगकाल इत्यर्थः ॥ ४ ॥ इति तृतीयाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ ( अथ तृतीयाध्यायस्याष्टमः खण्डः।) अथ यत्तृतीयममतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्मादूपादुद्यन्ति ॥२॥ स य एतदेवममृतं वेदाऽऽदित्यानामेवैको भूत्वा १ ख. ड. अ. उ. दुति। १ख. ड..