पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४३ अष्टमादिदशमान्ता:खण्डाः८-१०] छान्दोग्योपनिषत् । वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादेति ॥ ३ ॥ स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्त मेताऽऽदित्याना- मेव तावदाधिपत्य स्वाराज्यं पर्येता ॥४॥ इति तृतीयाध्यायस्याष्टमः खण्डः ॥८॥ __ ( अथ तृतीयाध्यायम्य नवमः खण्डः ।) अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमन मुखेन न बै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥२॥ स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमधि- संविशत्येतस्माद्रूपादेति ॥ ३ ॥ स यावदादित्यः पश्चादुदेता पुरस्तादस्तभेता विस्ता- वदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव ताव- दाधिपत्य स्वाराज्यं पर्येता ॥ ४ ॥ इति तृतीयाध्यायस्य नवमः खण्डः ॥ ९॥ (अथ तृतीयाध्यायस्य दशमः खण्डः ।) अथ यत्पश्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ १ ख. ड. ज. अ. ट. दुदैति । २ ख. ङ. ज. अ. ठ. 'दुदैति ।