पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमादिदशमान्ता:खण्डाः८-१०] छान्दोग्योपनिषत् । लैङ्गे चोक्तम्-

    • मानसोपरि माहेन्द्री प्राच्या मेरोः स्थिता पुरी ।

दक्षिणे भानुपुत्रस्य वरुणस्य तु वारुणे सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः । अमरावती संयमिनी सुखा चैव विभा क्रमात् । लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने । काष्ठां गतस्य सूर्यस्य गतिर्या तां निबोधत ।। दक्षिणां प्रक्रमेद्भानुः क्षिप्तेषुरिव धावति । पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः ॥ सः सायमनैः सौरो ह्युदयो दृश्यते द्विजाः॥ स एवं सुखवत्यां तु निशान्तस्तत्प्रदृश्यते ।। अस्तमेति यदा सूर्यो विभायां विश्वदृग्विभुः । मया प्रोक्तोऽमरावल्यां यथाऽसौ बारितस्करः ॥ तथा संयमिनीं प्राप्य सुखां चैव विभा खगः । महाऽपराह्नस्त्याग्नेय्यां पूर्वाह्रो नैर्ऋते द्विजः ।। तदा स्त्रप्पररात्रश्च वायुभको सुदारुणः । ऐशान्यां पूर्वरावस्तु गतिरेषाऽस्य सर्वतः ” इति ।। तथा चोपरिष्टादमरावत्यास्तिष्ठन्मध्याह्न तत्रेशकोणस्थानां तृतीययाममाग्नेपकोणस्थाना- भाद्ययामं संयमिन्यामुदयं च करोति -सविता । एवं यदा याम्ये मध्याह्ने तिष्ठति तदै. न्ट्रेऽस्तमयः । आग्नेये ततीययामः । नितिकोणे प्रथमो यामः । वारुणं उदयः । यदा च वारुपो मध्याह्नस्तदा याम्येऽस्तमयः । निऋतिकोणे तृनायो यमः यायच्ये प्रथमयामः । सौम्य उदयः । यदा च सौम्ये मध्याहस्तदा वारुणेऽस्तमयः । वायव्ये तृतीययामः ॥ ईशानकोणे प्रथमो यामः । ऐन्द उदयः । तथाऽऽनेय कोणे वर्तमानस्तत्यानां मध्यंदिनं यमेन्द्रपुर्योराद्यनतीययामौ नितीशानकोणयोरुदयास्तमयौ च करोति । एवं सर्वासु दिक्ष विदिक्ष चेति पौराणिके दर्शने तद्विरुद्धमिदं श्रुत्योक्तमियर्थः । ___ अत्रोक्तः परिहार आचार्य: । अमरावत्यादीनां पुरीणां हिगुणोत्तरोत्तरेण कालेनोद्वासः स्यात् । उदयश्च नाम सवितुस्तन्निवासिनां प्राणिनां चक्षर्गोचरा- पत्तिस्तदत्य यश्चास्तमनं न परमार्थत उदयास्तमने स्तः । तन्निवासिनां च प्राणि- ख. न °स्य च वा । २ ग. च. यमनी । ३ ग. ट. शा तस्य प्रवृ । ४ क. न्तस्थः प्रदृ' । ५ ख. ङ. ण. यमनीं । ६ ख. ग. छ. न. ट. ण. शा। ७ क. ऋथान । क. ख. ग. छ. ट. प. म. '।