पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-३तृतीयाध्याथे- श्लोकमुपादाय व्याकरोति-न वै तत्रेत्यादिना। निमुम्लोचेल्यस्मिन्नर्थे निम्लो- चेति च्छान्दसः प्रयोगः । इतिशब्दः पर्धिव्याख्यासमाप्त्यर्थः। उत्तरार्धमुत्थापयति---- उदयास्तमयोति । लोकत्वाविशेषादितरलोकवद्ब्रह्मलोकोऽपि नोदयास्तमयवर्जित इत्युक्तो विद्वानुत्तरार्धेन शपथं कुर्वन्परिहरतीत्यर्थः ॥ २॥ सत्यं तेनोक्तमित्याह श्रुतिः- - न ह वा अस्मा उदेति न निम्लोचति सहदिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥३॥ न हवा अस्मै । यथोक्तब्रह्मविदे नोदति न निम्लोचति नास्तमोति किं तु ब्रह्मविदेऽस्मै सकृद्दिवा हैव संदेवाहर्भवति स्वयंज्योतिष्ट्राय एतां यथोक्ता ब्रह्मोपनिषदं वेदगुह्यं वेद । एवं तन्त्रेण वंशादित्रयं प्रत्यमृतसंबन्धं च यच्चा- न्यदवोचामैवं जानातीत्यर्थः । विद्वानुदयास्तमयकालापरिच्छद्यं नित्यमजं ब्रह्म भवतीत्यर्थः ॥ ३॥ एवं मन्त्रदृक्शपथद्वारा नितिऽर्थे न हेल्याद्या किमर्था श्रुतिरित्याशङ्कक्याऽऽह- सत्यमिति । न हेत्याद्यां श्रुतिमादाय व्याचष्टे--यथोक्तति । ब्रह्मोपनिषैदमित्यस्या- र्थमाह-वेदगुह्यमिति । एवंशब्दमादाय व्याकरोति-एवमित्यादिना । वंशादित्रयं तिरश्चीनवंशो मध्यपूपो मधुनाड्यश्चेत्येवंरूपमित्यर्थः । प्रत्यमृतसंबन्धं च लोहिताद्यमृतेष्वेकै- फवस्वादीनां संबन्धमित्यर्थः । अन्यदित्युद्यमनसंवेशनादि गृह्यते । उक्तविद्याफलमुपसंहरति- विद्वानिति ।।३॥ तद्वैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाश्यस्तद्वैतदुद्दालकायाऽऽरुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥४॥ तद्वैतन्मधुज्ञानं ब्रह्मा हिरण्यगर्भो विराजे प्रजापतय उवाच । सोऽपि मनवे । मनरिक्ष्वाकांद्याभ्यः प्रजाभ्यः प्रोवाचेति विद्यां स्तौति ब्रह्मादिविशिष्टक्रभाग- तेति । किं च तद्धैतन्मधुंज्ञानमुद्दालकायाऽऽरुगये पिता ब्रह्मविज्ञानं ज्येष्ठाय पुत्राय प्रोवाच ॥ ४ ॥ १ घ, ङ. ट. सर्व। २ ड. ण. 'वं मन्त्रे | ३ ख. छ. अ. ण. षदित्य । ४ ख. छ. त्र. ण. ड्यश्चैवं'। ५ ङ. च. ण. च । स च म । ६ क. ठ. क्वादिभ्यः। ७ व. ङ. च. ण. धुविज्ञा । ८ ग. ट, ता ब्रह्मविद्ब्रह्म । ९ ड ड, द. ण, म ब्रह्मवि०१८ च. °य. ब्रह्म प्रो ।