पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्डः ११] छान्दोग्योपनिषत् ।। ननु विद्या सफला चेदुक्ता तर्हि किमुत्तरग्रन्थेनेत्याशङ्कयाऽऽह-तद्वैतदिति । स्तुतिमेवाभिनयति--ब्रह्मादीति । तद्वैतदुद्दालकायेत्यादिना विद्याण योग्यं पात्रं प्रद- श्यते । तद्वय चष्टे-किंचेति । इतश्च स्तुत्यहमेतद्विज्ञानमित्यर्थः । मधुविज्ञानं व्याक- रोति-ब्रह्मविज्ञानमिति ॥ ४ ॥ इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब- यात्प्रणाय्याय वाऽन्तेवासिने ॥ ५॥... ____ इदं वाव तद्यथोक्तमन्योऽपि ज्येष्ठाय पुत्राय सर्वप्रियार्हाय ब्रह्म प्रब्रूयात् । प्रणाय्याय वा योग्यायान्तेवासिने शिष्याय ॥ ५॥ ___ तस्य परोक्षत्वं व्यावर्तयति--इदं वावति । अथ ज्येष्ठाय पुत्राय ब्रह्म वक्तव्यमिति पूर्वेषामयं नियमो नेदानींतनानामित्यत आह--अन्योऽपीति । पात्रान्तरमनुजानाति- प्रणाय्यायति ।। ५॥ नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृ- हीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ ६॥ इति तृतीयाध्यायस्यैकादशः खण्डः ॥ ११ ॥ नान्यस्मै कस्मैचन प्रब्रूयातीर्थ यमनुज्ञातमनेकेषां प्राप्तानां तीर्थानामाचार्या दीनाम् । कस्मात्पुनस्तीर्थसंकोचनं विद्यायाः कृतमित्याह--यद्यप्यस्मा आचा- यायेमां कश्चित्पृथिवीमद्भिः परिगृहीतां समुद्रपरिवेष्टितां समस्तामपि दद्यादस्या विद्याया निष्क्रयार्थमाचार्याय धनस्य पूणी संपन्नां भोगोपकरणैर्नासावस्य निष्क्रयो यस्मात्ततोऽपि दानादेतदेव यन्मधुविद्यादानं भूयो बहुतरफलमित्यर्थः। द्विरभ्यास आदरार्थः ॥ ६॥ . इति तृतीयाध्यायस्यैकादशः खण्डः ॥ ११ ॥ पत्रशिष्याभ्यां पात्रान्तरं प्रत्याचष्टे--नति । तीर्थद्वयं विद्याप्रदानेऽधिकारिद्वयमि- त्यर्थः । निर्धारणे षष्ठी । आचार्यो विद्यादाता । आदिपदाद्धनदायी श्रोत्रियो मेधावी च गृह्यते । सर्वेषामर्थिनामन्त्राधिकारमाशङ्कय दृषयति-कस्मादित्यादिना । आचार्या १ क. य त । २ ख. छ. 1. ण. 'मित्याशझ्याऽऽह । ३ ख. प. इ. ठ, ड. द. ज. "स्य संपू। ४ ख. छ. ञ, ण. की गृ ।