पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ आनन्दगिरिकृतटीकासंवलित शांकरभाष्यसमेता--[ ३ तृतीयाध्याये- । आध्यानशेषत्वेन गायच्याश्चतुष्पात्त्वं दर्शयति-सैषेति । लक्षयित्वा तस्याः ड्विध- त्वमन्द्य साधयति-पड्विधेति । गायीहृदययोः सर्वभूतसंबन्धसिद्धयर्थमुपदिष्टयोव.. प्राणयोर्गायत्रीप्रभेदत्वेन कथं व्याख्यानमित्याशङ्कयाऽऽह-वाक्याणयोरिति । विधि. षक्षे वाक्यशेषयोगात्तयोरपि गायत्रीभेदत्वमित्यर्थः । तदेतस्मिन्नर्थे वाग्भृतपृथिवीशरीरहृद- यप्राणभेदात्पड्विधां गायत्रीमनुचिन्त्याजहल्लक्षणया तदवच्छिन्न ब्रह्मत्वं तदनुचिन्तयेदिति तच्छेपत्वेनैव पूर्वोक्त स्थिते सतीत्यर्थः ॥ ५ ॥ तावानस्य महिमा ततो ज्यायाश्च पूरुषः।पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥ तावानस्य गायच्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः । यावश्चितुष्पात्षड्विधश्च ब्रह्मणो विकारः पादो गायत्रीति व्याख्यातः । अतस्त- स्माद्विकारलक्षणाद्गायत्र्याख्याद्वाचारम्भणमात्रात्ततो ज्यायान्महत्तरश्च परमार्थ- सत्यरूपोऽविकारः पूरुषः पुरुषः सर्वपूरणात्परि शयनाच्च । तस्यास्य पादः सर्वा सर्वाणि भूतानि तेजोबन्नादीनि सस्थावरजङ्गमानि । त्रिपात्रयः पादा अस्य से.ऽयं त्रिपात् । त्रिपादमृतं पुरुषाल्यं समस्तस्य गायध्यात्मनो दिकि द्योतनवति स्वात्मन्यवस्थितमित्यर्थ इति ॥ ६॥ समस्तस्य पादविभागविशिष्टस्येति यावत् । विस्तारमेव विवृणोति--यावानिति । वाचारम्भणं विकारो नामधेयमिति वाक्यशेषमाश्रित्य विशिनष्टि--वाचारम्भणमात्रा- दिति । परमार्थसत्यत्वे हेतुमाह--अविकार इति । तावानस्येत्यादि स्पष्टयति- तस्यति । आदिपदेन वायुराकाशश्चत्युभयमुक्तम् । ततो ज्यायानित्यादि स्फुटयति- त्रिपादिति । समस्तस्य प्रपञ्च मकस्येत्यर्थः । श्रुतावितिशब्दो मन्त्रसमाप्त्यर्थः ॥ ६ ॥ यदै तद्ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥ यद्वै तत्रिपादमृतं गायत्रीमुखेनो(णो)क्तं ब्रह्मतीदं वाव तदिदमेक । तद्योऽयं प्रसिद्धो बहिर्धा बहिः पुरुषादाकाशो भोतिको यो स बहियों पुरुषा- दाकाश उक्तः ॥ ७॥ १ क, ख ग. छ. ण. 'थः । तरिम' | ट, र्थः । एतस्मि । २ ख. छ. °णप्रभे । . . ३ ८. च. ट. ड, ढ. ण तिपिस्ता । ४ च. . त ण. 'त्यभूतोऽवि । ५ क. ग, १. ङ, 'त्पुरीश। ६ घ. च. ठ. 'नाहा । त । ७ क. ग. ट. "स्य सर्वप्र । .....