पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः १२] छान्दोग्योपनिषत् ।। १५७ यद्ब्रह्म गायव्यवच्छिन्नमुपास्यमुक्तं हृदयाकाशे तद्ध्येयमिति वक्तुं क्रमेण हृदयाकाशमक- तारयति-यद्वै तदित्यादिना ।। ७ ।। अयं वाव स योऽयमन्तः पुरुष आकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ८॥ अयं ६व स योऽयमन्तः पुरुषे शरीर आकाशो यो वै सोऽन्तः पुरुष आकाशः॥ ८॥ अयं वाव स योऽयमन्त«दय आकाशस्तदेतत्पूर्ण- मप्रवर्ति पूर्णामप्रवर्तिनी५ श्रियं लभते य एवं वेद ॥ ९ ॥ इति तृतीयाध्यायस्य द्वादशः खण्डः ॥ १२॥ ___ अयं वाव स योऽयमन्तहृदये हृदय पुण्डरीक आकाशः । कथमेकस्य सत आकाशस्य त्रिधा भेद इति । उच्यते-बाह्येन्द्रियविषये जागरितस्थाने नभास दुःख बाहुल्यं दृश्यते । ततोऽन्तःशरीरे स्वमस्थानभूते मन्दतरं दुःखं भवति । स्वमान्पश्यतो हृदयस्थे पुनर्नभसि न कंचन कामं कामयते न कंचन स्वमं पश्यति । अतः सर्वदुःखनिवृत्तिरूपमाकाशं सुषुर्तस्थानम् । अतो युक्तमेकस्यापि त्रिधा भेदावाख्यानम् । बहिर्धा पुरुषादारभ्याऽऽका- शस्य हृदये संकोचकरणं चेतासमाधानस्थानस्तुतये । यथा ॥ त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते । अर्धतस्तु कुरुक्षेत्रमर्धतस्तु पृथूदकम् " इति तद्वत् । तदेतद्धादोकाशाख्यं ब्रह्म पूर्ण सर्वगतं न हृदयमात्रपरिच्छिन्नमिति मन्तव्यम् । यद्यपि हृदयाकाशे चेतः समाधीयतेऽप्रवर्ति न कुतश्चित्कचित्प्रवर्तितुं शीलमस्येत्यप्रवर्ति तदनुच्छित्तिधर्मकम् । यथाऽन्यानि भूतानि परिच्छिन्नान्यु- च्छित्तिधर्मकाणि न तथा हार्दै नभः पूर्णामप्रवर्तिनीमनुच्छेदात्मिकां श्रियं वि- भूति गुणफलं लभते दृष्टं य एवं यथोक्तं पूर्णाप्रवर्तिगुणं ब्रह्म वेद जानातीहैव जीवस्तद्भावं प्रतिपद्यत इत्यर्थः ॥९॥ - इति तृतीयाध्यायस्य द्वादशः खण्डः ॥ १२॥ १ क. ङ. अ. ये हृत्पुण्ड । २ क. म. च. र. ढ. ण, तस्य स्था' । ३ ण. दायाख्या । ४ क. ग. ङ. "श्चित्त । ५ ङ, ण. थोक्तपू ।