पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[ ३ तृतीयाध्यायेला - एकस्याऽऽकाशस्य कथं वैविध्यमुक्तमिति शङ्कते-कथमिति । औपाधिकत्रैविध्य. मविरुद्धीमीत परिहरति-उच्यत इति । ब्रह्म न्द्र विषयत्वं तद्विषयशब्दाचाश्रयत्वं स्वप्नस्थान भूते नभसीति संबन्धः । न कंचनेत्यादिना निषेधद्वयेन पूर्वप्रकारमवस्थाद्वयं निषिध्यते । निषेधफलमाह--अत इति । सर्वदुःखं स्थूलं वासनामयं च तन्निवृत्त्या निरूप्यमाणं हृदयाकाशमित्यर्थः । औपाधिकविष्यमुपसंहरति-अत इति । तथाऽपि किमित्यनेन क्रमेणाऽऽकाशस्य संकोचो हये क्रियते तत्राऽऽह-बहिति । स्थान- स्तुतिमुदाहरणेन स्फुटयति-यथेति । अत्र कुरुक्षेत्रमर्धतोऽर्धस्थानीयं पृथूदकमपि तथेति द्विदलयुगलमिव तदुभयं लोकत्रयापेक्षया विशिष्टतरमित्यर्थः । हृदयाकाशे चेतः समाधी यते चेत्ततश्चात्र परिच्छिन्नं ब्रह्म प्राप्तमित्याशङ्कयाऽऽह--तदेतदिति । पूर्णत्वेन जन्म. नाशशून्यत्वं सिध्यतीत्याह--अप्रवर्तीति । प्रधानफलत्वं व्यावर्तयति-गुणफलमिति । दृष्टफलवते स्वर्गाप्तिरिति दृष्टमित्युक्तम् । ज्ञानव विशिनष्टि. -इहैवेति । वर्तमानो देहः सप्तम्यर्थः । यो विद्वानेवं स यथोक्तं फलं लभत इति संबन्धः ॥ ९ ॥ ___ इति तृतीयाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ (अथ तृतीयाध्यायस्य त्रयोदशः खण्डः।) तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स न योऽस्य प्राङ्सुषिः स प्राणस्तरक्षुः स आदि- - त्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥ - तस्य ह वो इत्यादिना गायत्र्याख्यस्य ब्रह्मण उपासनाङ्गत्वेन द्वार- फलादिगुणविधानार्थमारभ्यते । यथा लोके द्वारपाला रॉज्ञ उपासनेन व- शीकृता रॉजप्राप्त्यर्थी भवन्ति तथैहापीति । तस्यति प्रकृतस्य हृदयस्ये त्यर्थः । एतस्यानन्तनिर्दिष्टस्य पञ्च पञ्चसंख्याका देवानां सुषयो देवसु. षयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवः प्राणादित्यादिभी रक्ष्यमाणा. नीत्यतो देवसुषयस्तस्य स्वर्गलोक भवनस्य हृदयस्यास्य यः प्राषिः ... १ क. ग, छ. ट, ण, सर्व दुः। २ ख. छ, ण, ति विद। ३ ख. घ.. च.. ट. ह. ग. वा एतस्येत्या । ४ घ. इ. 3. राज्ञामुपा । ५ घ.ट. राज्ञां प्रा । ड, राज्ञः प्रा । ६ घ. च, सर्लोक। ७ ड. द. प्रा.का ... - ---