पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रयोदशः खण्डः १३ ] छान्दोग्योपनिषत् । १५९ पूर्वाभिमुखस्य प्रागतं यच्छिद्रं द्वारं स प्राणस्तत्स्थस्तैन द्वारेण यः संचरति वायविशेषः स मांगनितीति प्राणः। तेनैव संबद्ध व्यातिरिक्तं तच्चक्षुस्तथैव स आदित्य : “ आदित्यो ह वै बाह्यमाणः" इति श्रुतेश्चक्षुरूप्रतिष्ठाक्रमेण हृदि स्थितः । "स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषि" इत्यादि हि वाजसने. यके । प्राणवायुदेवतेव ह्येका चक्षुरादित्यश्च सहाऽऽश्रयेण । वक्ष्यति च- प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तर्पयाति । तदेत्माणाख्यं स्वर्गलोकद्वार- पालत्वाद्ब्रह्म । स्वर्गलोक प्रतिपित्सुरतेचैतचक्षुरादित्यस्वरूपेणान्नांयत्वाच्च सवितुस्तेजोऽन्नाद्यमित्याभ्यां गुणाभ्यामुपासीत । ततस्तेजस्व्यन्नादश्वाऽऽमया वित्वरहितो भवति य एवं वेद तस्यैतद्गुणफलम् । उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्तिहेतुर्भवतीति मुख्यं च फलम् ।। १॥ वक्ष्यमाणज्ञानस्य स्वातन्त्र्यं परिहत्य प्रकरणभेदं व्यावर्तयितुमुत्तरग्रन्थस्य तात्पर्थमाह- तस्यति । द्वारपालादीत्यादिपदेन तद्गतो विशेषो गृह्यते । ब्रह्मण्युपासनेनाप्रसिद्धितो द्वार. पालोपास्तिरयुक्तेत्याशङ्कयाऽऽह-यथेति । इति तदुपास्तिरर्थवतीति शेषः । स्वर्गलोक- शब्दः परमात्मविषयः । स्वर्ग लोकमित ऊों विमुंक्ती इति श्रुत्यन्तरात् । देवसुषित्वं साधयति -देवैरिति । स्वर्गलोकस्य परमात्मनो भवनमायतनं तस्येति यावत् । प्राक्वेऽन- धस्थामाशङ्कयोक्तं पूर्वाभिमुखस्येति । त:स्थस्तेनेति । तच्छब्दो हृदयविषयः । तेनैवेति । प्राणविषयस्तच्छब्दः । तदव्यतिरिक्तत्वं स्वातन्त्र्येण चक्षुषोऽकिंचित्करत्वम् । न हि चक्षुषः प्राणस्य संबन्धो न हि बाह्यस्य तत्संबन्धे निबन्धनमस्ति तत्र:ऽऽह-चक्षुरिति । आध. ष्ठातवेनाऽऽदित्यश्चक्षुषि प्रतिष्ठितश्चक्षुश्च ग्राहकतया रूपे प्रतिष्टितं रूपदर्शने करणी भवति । तथैव प्राणस्य चक्षुष्ट्वमित्यर्थः । प्राणादित्ययोरक्ये प्रमाण माह-आदित्यो हति । कथं यथोक्तस्याऽऽदित्यस्य हृदयसुषिद्वारस्थानित्वं वासनात्मना हृदये [ प्रतिरू. पाणि ] प्रतिष्ठितानि तदाऽनेन क्रमेणाऽऽदित्यो हृदये रिष्ठतीत्यर्थः । तत्र श्रुत्यन्तरं प्रमा- णयति-स आदित्य इति । एकदेवताभिन्नत्वादपि प्राणामेदेन चक्षुरादित्ययोराध्यानं - युक्तमित्याह--प्राणेति । आश्रयशब्देन रूपाणि हृदयं चोच्यते धुलोको वा। आदि- स्यश्चक्षुषोवस्तदधिष्ठितस्य सर्वस्य प्राणात्मत्वे वाक्यशेषमनुकूलयति--चक्ष्यति चेति । १ ख. ञ. ण. प्राग्गच्छती । २ व. ऊ. च. ट. इ. तश्चक्षु'। ३ च. "त्यादीति वा । ४ क. ग. ट. ठ. ड. 'दि वा । ५ ख. ग. घ. ड. घ. ञ. ट. ठ. ड. द. 'लोकम । -: ६ ढे. ढ. जस्त ° । ७ ङ, णानवाया 18 के. ग, ट. ह. द. 'मादत्वा । ९ घ, ङ. ठ. "ति तु मुं। १० क. भुत्या पति । ११ ग. ट, कावेति । १२ क. ख. अ. ण. रस्याऽऽ:म । १३ क. भुश पी।