पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- ३ तृतीयाध्याये- न हि प्राणे तृप्यति सर्वस्य तृप्तिस्तादात्म्यमन्तरेण संभवतीति भावः तदेतत्प्राणाख्यं ब्रह्म स्वर्गलोक प्रतिपित्सुः सन्पुरुषस्तेजोऽन्नाद्यनित्याभ्यां गुणाभ्यां विशिष्टनुपासीतेति संबन्धः । किमिति यथोक्तोऽधिकारी प्राणोपासने नियुज्यते तत्राऽऽह--स्वर्गति । तथाऽपि कथं यथोक्तगुणद्वयवैशिध्यं प्राणाख्यस्य ब्रह्मणः सिध्यति तत्र तेजःशब्दं व्याकुर्वन्नाह-तेज. स्वीति। एतत्माणाख्यं ब्रह्मोभयरूपेण तेजस्त्री तथाच तेजोगुणविशिष्टतया तदुपासनाम- हति । सवितुश्चान्नदत्वं वृष्टिद्वारेण " आदित्याज्जायते वृष्टिः" इत्यादौ दृष्टमतश्चानं च तदाद्यं चेति गुणान्तरविशिष्ट वेनापि सवितृरूपं प्राणाख्यं ब्रह्म ध्यानाहमित्यर्थः । किं तर्हि मुख्यं फलमिति तदाह--उपासनेनेति ॥ १॥ । अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छो- १५ स चन्दमास्तदेतच्छीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ २॥ अथ योऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषः स वीर्यवत्कर्म कुर्वन्विगृह्य वा प्राणापानौ नानों वाऽनितीति व्यानस्तत्संबद्ध मेव च तच्छोत्रमिन्द्रियं तथा स चन्द्रमाः। श्रोत्रेण सृष्टा दिशा चन्द्रमाश्चेति श्रुतेः सहाश्रयो पूर्ववत्तदेतच्छ्रश्चि विभूतिः श्रोत्रचन्द्रमसोज्ञानानतुत्वमनस्ताभ्यां श्रीत्वम् । ज्ञानानवतश्च यशः ख्यातिभवतीति यशोहेतुत्वाधशस्त्वमतस्ताभ्यां गुगाभ्यामुपासीतेत्यादि समानम् ।। २ ॥ हृदयस्य पूर्वदिगवस्थितच्छिद्र संबन्धित्वेन प्राणमुक्त्या व्यानः श्रोत्रं चन्द्रमाश्चेति त्रितयमितरसंबन्धमुपास्यमित्याह---अथेति । वीर्यवत्कर्म कुर्वन्नानतीति संबन्धः । प्राजापानी विगृह्य विरुध्य वाऽयमनितीति पक्षान्तरं नानास्कन्धसंधिमर्मसु विविधम- निति चष्टत इति विकल्पान्तरं तेन व्यानेन सबन्धः श्रोत्रस्य श्रुत्युक्तवाद्ध्यानार्थों मन्तव्यः । यथा श्रेत्रस्य व्यानेन संबन्धस्तथा चन्द्रमसोऽपिं तेन संबन्धस्य श्रुत्युक्त त्वादेव ध्यानार्थतया ग्राह्य इयाह-तशेति । अंत्रिचन्द्रनसोः संबन्धे श्रुत्यन्तरभनु. कूलयति-श्रोत्रणेति । यद्विराजः श्रोत्रं तदात्मना दिशश्चन्द्रमाश्च येते सृष्टा इति श्रुतेरियर्थः । मिथः संबधेऽपि कथमनयोानात्मत्वं व्याने तृप्यतीत्यादिवाक्यशेषा- दवधेयमित्यर्थः । तदेतद्वयानाख्यं ब्रह्म श्रीश्च यशश्चेत्याभ्यां गुणाभ्यामुपासीतेति संबन्धः । १ क. तृते स । २ ख छ. अ. लोकप्र । ३ ख. छ. ञ, ण. मुख्यफ । ४ ण. ना मत्यानि । १ ख. ध. . मेरैत । ६ क. प. उ. ड. श्चन्द्र । ७ क. ग. बद्धमु । ८ क. उ.वन्न्यान इति ।