पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Mot2-5- 31.5.6 त्रयोदशः खण्डः १३] छान्दोग्योपनिषत् कथं तस्य गुणद्वयवतो ध्यानमित्याशङ्कय श्रोत्रस्य ज्ञानहेतुत्वाचन्द्रमसोऽनहेतुत्वात्तयोरात्र- यत्वे तदात्मनो व्यानस्यापि तद्गुणत्वोपपत्तिरित्याह--श्रोत्रेति । व्यानोख्ये ब्रह्मणि गुणान्तरं साधयति--ज्ञानेति । उक्तस्य ब्रह्मणो गुणद्वयसंभवोऽतःशब्दार्थः । श्रीमानि . त्यादिफलवाक्यमादिशब्दार्थः । समानं तेजस्वीत्यादिवाक्येनेति शेषः ॥ २ ॥ 'अथ योऽस्य प्रत्यङसुषिः सोऽपानः सा वाक्सोऽ- निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्य- नादो भवति य एवं वेद ॥ ३ ॥ अथ योऽस्य प्रत्यङ्सुपिः पश्चिमस्तत्स्थो वायुविशेषः से मूत्रपुरीपाद्यपनय- नधोऽनितीत्यपानः सा तथा वाक् । तत्संबन्धात्तथाऽग्निस्तदेतद्ब्रह्मवर्चसं, वृत्त. स्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम् । आयसंवन्धावृत्तस्वाध्यायस्य । अन्न- असनहेतुत्वादपानस्यान्नाद्यत्वम् । समानमन्यत् ॥ ३ ॥ हृदयस्य पश्चिमदिगवस्थितसुषिसंबन्धत्वेनापानो वागग्निश्चेति त्रितयमन्योन्यसंबन्धं ध्येयमित्याह--अथ योऽस्येति । सोऽपान इत्यस्यार्थमाह--तत्स्थ इति । सोऽपान इति संबन्धः । अपानशब्दं वायुविशेषे व्युत्पादयति-मूत्रेति | आदिशब्देन शुक्रादि गृह्यते । यथा चक्षुषः श्रोत्रस्य प्राणत्वं व्यानत्वं चोक्तं तथा वागपानो भवत्यपाने तप्यती- त्यादिश्रुतेरित्याह-सा तथेति । यथा चक्षुरादिद्वारेणाऽऽदित्यादेः प्राणादिरूपत्वमुक्तं तथा वा चोऽधिष्ठातृत्वेन संबन्धादग्निस्तद्वारेणापानो भवतीत्याह-तत्संबन्धादिति । तदेतदपानाख्यं ब्रह्मवर्चसमन्नाममिल्याभ्यां गुणाभ्यां विशिष्ट मुग्णसीतेति संबन्धः । ब्रह्मव- चसं व्याचष्टे--वृत्तेति । कथमपानाख्ये ब्रह्मणि अशोको गुणः सिध्यतीत्याशङ्कयाग्नि- द्वारेत्याह-अग्निसंबन्धादिति । तथाऽपि कथमन्नाद्यत्वमित्याशङ्कयापानद्वारेणेत्याह-- अन्नेति । ब्रह्मवर्चसीत्यादिफ वाक्यं श्रीमानित्यादिना तुल्यार्थत्वान्न व्याख्यानापेक्षमित्याह- समानमिति ॥ ३॥ अथ योऽस्योदङसुषिः स समानस्तन्मनः स पर्ज- न्यस्तदेतत्कीर्तिश्च व्युष्टिश्वेत्युपासीत कीर्तिमान्व्यु- ष्टिमान्भवति य एवं वेद ॥४॥ अथ योऽस्योदङ्सुषिरुदम्गतः सुषिस्तत्स्थो वायुविशेषः सोऽशित-1 १ छ. . °चन्द्रांशत्वा । २ क. ग. ट. नास्यत्र । ३ ख. छ. ञ. 'भ्यां वि ४ ख. अ. ण. रोत्या । ५ क. ग. ट. वाक्ये श्री । श्री राम रोष आश्रम