पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३ तृतीयाध्याये- पीते समं नयतीति समानः । तत्संबद्धं मनोऽन्तःकरणं स पर्जन्यो वृष्टया- त्मको देवः पर्जन्यनिमित्ताश्चाऽऽप इति । " मनसा सृष्टा आपश्च वरुणश्च " इति श्रुतेः । तदेत्कीर्तिश्च । मनसो ज्ञानस्य कीर्तिहेतुत्वात् । आत्मपरोक्षं विश्रु तत्व कीर्तियशः । स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देहगतं लावण्यम् । ततश्च कीर्तिसंभवात्कीर्तिश्चेति । समानमन्यत् ॥ ४॥ हृदयस्योत्तरसुषिसंबन्धवेन समानो मनः पर्जन्यति त्रितयं परस्परसंबद्धमुपास्यमि- त्याह-अथेति । समान इति संबन्धः । समानशब्दं वायुविशेषे व्युत्पादयति-अशि- तेति । मनसः समानेन संबन्धः समाने तृप्यतीत्यादिश्रुतेग्राह्य इत्याह-तत्संबंद्ध- मिति । मनसि तप्यति पर्जन्यस्तप्यतीति वाक्यशेषमाश्रित्य तयोः संबन्धमाह ---पर्जन्य इति । श्रुत्यन्तरादपि तयोः संबन्धं वक्तुं पातनिकामाह-पर्जन्येति । शेषः प्रसिद्धिपराम- ऑर्थः । तथाऽपि कथं पर्जन्यमनसोः संबन्धसिद्धिरित्याशङ्कय वायोरपि कारणत्वेनाद्भिः संबन्धात्तद्वारा मिथोऽपि तसिद्धिरित्याह-- मनसेति । तदेतत्समानाख्यं ब्रह्म कीर्तिश्च व्युष्टिश्चेत्याभ्यां गुणाभ्यामुपासीतेति संबन्धः । तस्मिन्ब्रह्माण कीर्तिरूपं गुणं साधयति- मनस इति । न्युष्टेरर्थान्तरत्वं कीर्तेर्दर्शयति-आत्मेति । ततो व्युष्टेराचष्टे-स्वकरणेति । तामेवानुमवारूढतया कथयति--कान्तिरिति । कथं पुनर्देहगतम्य लावण्यस्य कीर्तिता- स्तवः शक्यते तत्राऽऽह-ततश्चेति । लावण्यं पञ्चम्यर्थः । इत्यसंकीर्णगुगद्दयविशिष्ट. मुपासनं सिद्धमित्यर्थः । कीर्तिमानित्यादिफलवाक्यस्य ब्रह्मवर्चतीत्यादिना तुल्यार्थत्वादव्या- ख्येयत्वमाह-समानमिति ॥ ४ ॥ अथ योऽस्योर्ध्वः सुषिः स उदानः स वायः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी मह- स्वान्भवति य एवं वेद ॥ ५ ॥ अथ योऽस्योः सुषिः स उदान आ पादतलादारभ्योयमुत्क्रमणादुका थं च कर्म कुर्वन्नितीत्यदानः स वायुस्तदाधारश्चाऽऽकाशस्तदेतद्वारवाकाशयो- रोजोहेतुत्वादोजो बलं महत्वाच मह इति । समानमन्यत् ।। ५॥ हृदयस्योर्ध्वच्छिद्रवैशिष्टयेने दानो वायुराकाशश्चेति त्रितयमन्ये न्यसंबन्धमुपास्यमि.. १ क. ड. ण संबन्धं म । २ ख. अ. 'णं प° । ३ ख. ण. °बन्धमु । ४ क. ख. ग. छ. अ. ट. ण. °बन्धमि । ५ क. ग. ट. ति । तदेव वा । ६ क. ग. ट. सिद्धप । ७ क. ग, ट. 'भवरू। ८ प. उ. पांच क' ।