पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः खण्डः १३] छान्दोग्योपनिषत् । त्याह-अथ योऽस्येति । उत्क्रमणादुदान इति संवन्धः । उदाने तृष्यति वायुस्तृप्यतीति वाक्यशेषमाश्रित्याऽऽह-स वायुरिति । वायोराकाशत्वमाधाराधेयसंबन्धाद्वायौ तृष्यत्या- काशस्तप्यतीति श्रुतेश्चेत्याह-तदाधारश्चेति । तदेतदुदानाख्यं ब्रह्म पूर्ववदोजो महश्चे- त्याभ्यां विशिष्टमुपासीतेति संबन्धः । उक्तगुणद्वयं निर्दिशति-वाय्याकाशयोरिति । ओजस्वीत्यादिवाक्यस्य कीर्तिमानित्यादिना हुल्यार्थत्वमाह-समानमिति ॥ ५ ॥ ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रति- पद्यते स्वर्ग लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्व- स्य लोकस्य द्वारपान्बेद ॥ ६॥ ते वा एते यथे.क्ताः पञ्चसुपिसंबन्धात्पश्च ब्रह्मणो हार्दस्य पुरुषा राजपु- रुषा इव द्वारस्थाः स्वर्गस्य हादस्य लोकस्य द्वारपा द्वारपालाः । एतैहि चक्षुः- श्रोत्रवाड्मनःमाणैर्बहिर्मुखप्रवृत्तैर्ब्रह्मणो हादस्य प्राप्तिद्वाराणि निरुद्धानि । प्रत्यक्षं ह्येतदजितकरणतया बाह्यविषयासङ्गानतरूढत्वान हार्दै ब्रह्मणि मनस्तिष्ठति । तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपा इति । अतः स य एतानेवं यथोक्तगुणविशिष्टान्स्वर्गस्य लोकस्य द्वारपान्वेदोपास्त उपासनया वशी करोति स राजद्वारपालानिवोपासनेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्ग लोकं राजानमिव हादं ब्रह्म । किंचास्य विदुषः कुले वीरः पुत्रो जायते धीरपुरुषसेवनात् । तस्य चोपाकरणेन ब्रह्मोपासनप्रवृत्तिहेतुत्वम् । ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्येण भवतीति स्वर्गलोकप्रतिपत्तिरेवै फलम् ॥६॥ तस्य ह वा एतस्येत्यादिनोक्तमनुवदति--ते वा इति । कथं ब्रह्मपुरुषास्तत्राऽऽह-- राजपुरुषा इति । व्यपदिश्यन्त इत्यर्थः । तेषां द्वारपालवं प्रपञ्चयति–एतैरिति। तत्र स्वानुभव प्रमाणयति--प्रत्यक्षं हीति । विवेकवैराग्याभ्यां वशीकृतश्रोत्रादिकरण- ग्रामोपेतत्वाभावात्परोक्षशब्दादिविषय आसङ्गरूपानृताक्रान्तत्वादित्यर्थः । एतैरेव विषयवि. मुखैब्रह्मप्रातिद्वाराणि समाध्यादिना विवृतानीत्यभिप्रेत्योपसंहरति-तस्मादिति । ब्रह्म- १ क. ख. ग. त्र. ट. पालाः । २ घ. च. ठ. प्रत्यूढ । ३ घ. ट. ड. पानि । ४ ख. ञ. ठ. हार्दन ।