पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ इतृतीयाध्याये- पुरुषानुक्ताननूद्य सफलमुपासनं दर्शयति--अत इति । अनियतानां चक्षुरादीनां ब्रह्म- प्रातिप्रतिबन्धकत्वं नियतानां तु तत्प्राप्तिहेतुत्वमित्यतःसब्दार्थः । यथोक्तगुणविशिष्ट चक्षुरादीनामादित्याद्यात्मकत्वम् । अदृष्टं फलमुक्त्वा दृष्टं फलमाह---किंचेति । यथो- कपुत्रोत्पत्तिर्विवक्षितब्रह्मप्राप्तावनुपयुकेल्याशङ्कयाऽऽह-तस्य चेति । पुत्रस्य ध्याना. नुसारित्वं हेतुत्वं ततःशब्दार्थः । पारम्पर्येणोपासनाद्वारेणेति यावत् । पुत्रस्य. व्यानद्वारा ब्रह्मप्राप्तिहेतुत्वे फलितमाह-इति स्वर्गेति ॥ ६॥ अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वार तयदिदमस्मिन्नन्तः पुरुषे ज्योतिस्तस्यैषा दृष्टि- यत्रैतदस्मिञ्छरीरे सश्स्पर्शनोष्णिमान विजा- नाति तस्यैषा श्रुतिर्यत्रतत्कर्णावपिगृह्य निन- दमिव नदथुरिवामेरिव ज्वलत उपशृणोति तदे. तदृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ७ ॥ इति तृतीयाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ - अथ यदसौ विद्वान्स्वर्ग लोकं वीरपुरुषसेवनात्प्रतिपद्यते । यच्चोक्तं त्रिपा- दस्यामृतं दिवीति तदिदं लिङ्गेन चक्षुःश्रोत्रेन्द्रियगोचरमापादयितव्यम्, यथाऽ- न्यादि धूमादिलिनेन । तथा ह्येवमेवेदमिति यथोक्तेऽर्थे दृढा प्रतीतिः स्यात् । अनन्यत्वेन च निश्चय इति । अत आह----यदतोऽमुष्मादिवो द्युलोकात्परः परमिति लिङ्गव्यत्ययेन ज्योतिर्दीप्यते । स्वयंप्रभं सदाप्रकाशत्वाद्दीप्यत इक दीप्यत इत्युच्यते । अग्न्यादिवज्ज्वलनलक्षणाया दीप्तेरसंभवात् । _मायत्र्युपाधिकं ब्रह्मोपास्य. तार्थेन द्वारपालोपास्तिश्च कर्तव्या ततश्चाङ्गेषु श्रुतानि फलानि समुच्चित्य प्रधानोपासनादेव ब्रह्मप्राप्तिरित्युक्तम् । इदानी विद्यान्तरं प्रस्तौति- अथेति । परस्तादिवो दीप्यमानं ब्रह्म कौक्षेये ज्योतिषि प्रतीकेऽध्यस्य दृष्टत्वश्रुतत्वाभ्या- मुपासितव्यमितिः श्रौतमर्थः सिद्धवत्कृत्वाऽऽर्थिकमर्थमादाय तात्पर्यभाह—यदसौ १ग: ट. "त्मत्व । २ ख. ड. अ.. "द्वान्सस्वः । ३ क. ण. न्यादिर्घमा ।. ४. ङ