पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोदशः खण्डः १३ छान्दोग्योपनिषत् ।। विद्वानिति । वीराणां वीवतामादित्यादीनां पुरुषाणां सेवमादाध्यानादिति यावत् । लिङ्गेन स्पर्शविशेषण श्रवणविशेषण पेत्यर्थः । चक्षुःश्रोत्रेन्द्रियगोचरमिति । मदृष्टिं प्रति दृष्टं श्रुतं च मयेत्या पादयितव्यम् । अन्यथा दृष्टत्वश्रुतत्वाभ्यां ब्रह्मणि ध्यानासिद्धे. रित्यर्थः । परस्याप्रतिपत्तौ लिड्नेन प्रत्यायने दृष्टान्तमाह--यथेति । विप्रतिपन्नं प्रति धूमादिलिङ्गेनाग्न्यादि प्रत्याय्यते तथा स्पर्शादिलिङ्गेन दृष्टत्वादिविशिष्टमिदं प्रत्येतव्यमि- त्यर्थः । यथोक्तरय ज्योतिषो लिङ्गेन प्रत्यायनं किमिति क्रियते तत्राऽऽह-तथा हीति । लिङ्गदरा तस्य प्रत्यायने सति गुणद्वयविशिष्टमेवदं ज्योति न्यथेत्येवं यथोक्ते परस्मिन्नुपा. स्यज्योतिषि दृढा धी: स्यात् । तदभावात्तद्गुणस्य ज्योतिषोऽध्यानादित्यर्थः । मा भूत्परस्य ज्योतिषो यथोक्त गुणग्याशेषोपासनभित्याशङ्कयाऽऽह--अनन्यत्वेनेति । कौक्षेयस्य ज्योतिषः संनिकर्षाज्जीवाभेदं परिकल्प्य जाठरं ज्योतिर्ब्रह्मेत्यनन्यत्वेन ध्याने जीवब्रह्मणोरेक- तया निश्चयश्चासिध्यति । अतो यथोक्तोपास्तिरर्थवतीत्यर्थः । अथशब्दस्य विद्यान्तरा- रम्भार्थत्वमभ्युपेत्यानन्तरग्रन्थस्य तात्पर्यमुक्त्वाऽवशिष्टान्यक्षराण्यवतार्य व्याकरोति--अत आहेत्यादिना । यदित्युपक्रम्य ज्योतिरित्युपसंहारात्पर इति पुंलिङ्गप्रयोगमाशङ्कयाऽऽह- परमिति । कादाचित्कप्रकाशत्वाभावात्कथं दीप्यत इति प्रयोगस्तत्राऽऽह--स्वयंप्रभ- मिति । कस्मादिवेति प्रयुज्यते मुख्यमेव दीप्यमानत्वं किं न स्यादित्याशङ्कयाऽऽह-- अग्न्यादीति । हेतोरुभयत्र संबन्धः । विश्वतः पृष्ठेष्वित्येतस्य व्याख्यानं सर्वतः पृष्ठेष्विति । संसारादुपरी- त्यर्थः । संसार एव हि सर्वः। असंसारिण एकत्वान्निभेदत्वाच्च । अनुत्त- मेषु तत्पुरुषसमासाशङ्कानिवृत्तय आहोत्तमेषु लोकेष्विति सत्यलोकादिषु हिरण्यगर्भादिकार्यस्थपरस्येश्वरस्याऽऽसन्नत्वादुच्यत उत्तमेषु लोकष्विात ! इदं वावेदमेव तद्यदिदमस्मिन्पुरुषेऽन्तर्मध्ये ज्योतिश्चक्षुःश्रोत्रग्राह्येण लिङ्गेनो- प्णिम्ना शब्देन चावगम्यते । यत्त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव । दृढप्रतीति- करत्वात्त्वचः । अविनाभूतत्वाच्च रूपस्पर्शयोः। सर्वशब्दस्यासंकुचिततिवादात्मनोऽपि तेन संगृहीतत्वात्कथं तस्मादूर्ध्व ब्रह्मेत्युपपन्न- मित्याशङ्कयाऽऽह-संसारादिति । तस्यैव सर्वशब्दवाच्यत्वमुपपादयति-संसार एव हीति । तस्यानेकत्वेन सर्वशब्दार्हत्वादित्यर्थः । आत्मनि सर्वशब्दानुपपत्तिमाह- १ ख. छ. अ. ण. 'त्वमुो । २ ख. छ, अ.जा. लिलाम । ३ क. ग. घ, ङ. ट. ण. न बाऽव। ४ म. ट. तवृत्तित्वा ।