पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ आनन्दगिरि कृतटीकासंबलितशांकरभाष्यसमेता-[३तृतीयाध्याये- असंसारिण इति ।- सर्वशब्दस्यानेकार्थवाचित्वादात्मनि चैकत्वात्प्रकारभेदस्य च नित्य. मुक्ते तस्मिन्नसंभवान्न तस्य सर्वशब्दात्प्रतीतिरित्यर्थः । उत्तमा न भवन्तीत्युनुत्तमास्तेविति तत्पुरुषाशङ्कायां तन्निवृत्तिद्वारा बहुव्रीहिसिद्धयर्थं विशेषणमित्याह--तत्पुरुषति । किमिति तेषु परब्रह्म निर्दिश्यते तस्य सर्वगतत्वादियाशङ्कयाऽऽह-हिरण्यगर्भादीति । तत्कार्यात्मना स्थितं परं ब्रह्मोत्तमेषु लोकेष्टित्युच्यते । तस्य सर्वत्र सतोऽपि सत्यलोका- दिषु हिरण्यगर्भाद्यात्मनाऽतिशयेन नित्याभिव्यक्तयादित्यर्थः । यदिति सर्वनाम्ना प्रकृतं ब्रह्म परामृश्यते तस्योपास्यत्वार्थ संसारादुपरिष्टादवस्थानमुक्तम् । इदानी कौक्षेये ज्योतिषि तदा- रोपयति--इदमिति । कौक्षेये ज्योतिषि प्रतीके प्रमाणं दर्शयति--चक्षुरिति । चक्षुष्यो भवतीतिफलवचनानुसारेण स्पर्शरूपैक्यमाध्यासिकमादायोष्णिम्नश्चाक्षुषत्वं द्रष्टव्यम् । रूपस्पर्शयोरैक्याध्यासं स्फुटतति--यत्त्वचेति । यदुष्णं तेजो द्रव्यात्मकं बगिन्द्रियेण स्पर्शरूपेण गृह्यते तच्चक्षुषैव गृह्यते तत्र हेतुमाह-दृढेति । त्वचो दृढायां प्रतीतो हेतुत्वाच्चक्षुषा तादात्म्यारोपादित्यर्थः। यद्रूपवद्भवति तत्स्पर्शवदिति नियमाच रूपस्पर्शयो. स्तादात्म्याध्यासात्तस्य चाक्षुषत्वसिद्धिरित्याह--अविनाभूतत्वाच्चेति । कथं पुनस्तस्य ज्योतिपो लिङ्गं त्वदृष्टिगोचरत्वमापद्यत इति, आह-यत्र यस्मिन्काले । एतदिति क्रियाविशेषणम् । अस्मिशरीरे हस्तेनाऽऽलभ्य संस्प- र्शनोष्णिमानं रूपसहभाविनमुणस्पर्शभावं विजानाति । स युणिमा नामरू- पव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषो लिङ्गमव्यभिचारात् । न हि जीवन्तमात्मानमुष्णिमा व्यभिचरति उष्ण एव जीविष्यशीतो मरिष्यन्निति हि विज्ञायते । मरणकाले च तेजः परस्यां देवतायामिति परेणाविभागत्वोपग- मात् । अतोऽसाधारणं लिङ्गमौण्यमग्नेरिव धयः । अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः । शब्दो यस्य(?) ज्योतिषो लिङ्गमौष्ण्यं तस्य त्वगिन्द्रियग्र ह्यस्य चाक्षषत्वमुपपादयितुं पच्छति--कथमिति । तस्यैषा दृष्टि रत्यादिवाक्येनोत्तरं दर्शयन्यत्रेत्यादि व्याक- रोति-आहेत्यादिना । यतविज्ञानं स्यात्तथेति विज्ञानक्रियायां विशेषणमेतदिति पदमित्यर्थः । संस्पर्शनोष्णिमान विजानाति चेत्कथं तर्हि तस्य चाक्षषत्वमित्यःश. कयाऽऽह--रूपसहभाविनमिति । भवत्यौपचारिकमौष्ण्यस्य चाक्षुषत्वं तथाऽपि कथं तस्य लिङ्गत्वमित्याशङ्कय जीवनप्रत्यायनद्वारा कौक्षयज्योतिषि तस्य लिङ्गत्वं साध- यति--स हीति । जीवात्मना तस्याव्यभिचारं स्फोरयति--न हीति । तत्रैव श्रुति १ ग, छोऽप्यस्य । २ ग. त्र. सेये ज्यो ।