पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः खण्डः १३ ] छान्दोग्योपनिषत् । १६७ संवादयति--उष्ण एवेति । यदा जीवस्य लिङ्गमौष्ण्यं तदा परस्यापि ज्योतिषस्तल्लिङ्गं भवति, जीवपरयोरेकत्वावगमादित्याह-मरणकाले चेति । वागादि मनसि मनः प्राणे प्राणस्तेजसि तदध्यक्षलक्षणपरस्यां देवतायां परमात्माख्यायां संपद्यत इति श्रुत्या जीवस्य परेण तदर्थाःगना सहाभिन्नत्वस्योपगमाज्जीवस्य लिङ्गं तद्भवति परस्य लिङ्गमित्यर्थः । यदा हि जीवस्य परस्य च यथोक्तलिङ्गादवगतिस्तदा तत्र कौक्षयज्योतिषस्तदधिकरणस्य सुत- रामवगतिरस्तीत्याह--अत इति । उष्णस्य जाठरे ज्योतिषि प्रतीके लिङ्गवे सति यल्लिङ्गमाह(?)--तस्येति । विष्णोरिव प्रतिमायां जाठरेण ज्योतिषा परस्य ज्योतिषस्ता- दात्म्यादित्यर्थः । ____ तथा तस्य ज्योतिष एषा श्रुतिः श्रवणं श्रवणोपायोऽप्युच्यमानः। यत्र यदा पुरुषो ज्योतिपो लिङ्गं शुश्रूषाति श्रोतुमिच्छति तदैतत्कांवपिगृर्ततच्छब्दः क्रियाविशेषणम् । अपिगृह्यापिधायेत्यर्थोऽङ्गुलिभ्यां प्रोणुत्य निनदमिर रथस्येव घोपो निनदस्तामेव शृणोति नदथुरिव ऋषभजितमिव शब्दो यथों चाग्नेहि- बलत एवं शब्दमन्तःशरीर उपशणोति तदेतज्ज्योतिष्टश्रुतलिङ्गत्वादृष्टं च श्रुतं चेत्युपासीत । तथोपासनाचक्षुष्यो दर्शनीयः श्रुतो विश्रुतश्च । यत्स्पर्शगु- णोपासननिमित्तं फलं तद्रूपे संपादयति चक्षुष्य इति । रूपपर्शयोः सहभावि- त्वात् । इष्टत्वाच्च दर्शनीयतायाः । एवं च विद्यायाः फलमुपपन्नं स्यान्न तु मृदुत्वादिस्पर्शवत्वे । य एवं यथोक्तौ गुणौ वेद । स्वर्गलोकप्रतिपत्तिस्तूक्तमदृष्टं फलम् । द्विरभ्यास आदरार्थः ॥ ७॥ इति तृतीयाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ प्रतीकद्वारा दृष्टयुपायवत्तस्य श्रवणोपायं लिङ्गान्तरं दर्शयति-तथेति । अपिगृह्य शणोतीति संबन्धः । यथा श्रवणभेतद्भवति तथा शृणोतीति श्रवणक्रियाया विशेषणमेत. च्छब्द इति योजना । पोर्तुत्य पिधायेति यावत् । श्रूयमाणशब्दस्य वाच्यार्थभावस्फुटीक" रणार्थमनेकदृष्टान्तोपादानम् । कौक्षियज्योतिष्यारेपितस्य ज्योतिषो ध्येयस्य ध्यानोपायाङ्ग. त्वेन गुणद्वयमुपदिशति-तदेतदिति । दृष्टमित्युपासने फलमाचष्टे--तथेति । श्रुत. मित्युपासने फलमाह--श्रुत इति । कथं पुनः स्पर्शगुणोपासने स्पर्यो भवतीति वक्तव्ये चक्षुष्यो भवतीत्युच्यते तत्र!ऽऽह – यत्स्पर्शति । संपादने निमित्तमाह--रूपस्पर्शयो- रिति । इतश्चक्षष्यो भवतीति फलवचनमुचितमित्याह--इष्टत्वाच्चेति । फलवचनमपि संपादयति न कल्पकमित्याह--एवं चेति । यदा स्पर्शगुणोपासननिमित्तं फलं रूपे क. ति तलि । २ ख. घ. च. अ. ठ. ण. एवैषा । ३ ख. ङ. अ. ड. ढ, ण. तित। ४ क. ग. ट. निनाद । ५ञ. ड. था वाऽमे' । ६ ग. ट. क्षेये ज्यो ।