पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३तृतीयाध्याये-- संपाद्यते तदा विद्यायाः श्रुतं फलमुपपन्नमिति फलश्रुतिरनुकूलिता स्यात् । रूपविशेषवति चक्षुष्यशब्दस्य प्रसिद्धत्वादित्यर्थः । यदि पुनर्मुदुवादिस्पर्शगुणस्योपासनानिमित्तं फलं कल्प्यते तदा चक्षुष्यो भवतीति श्रुतं फलं नैवोपपन्नं स्यात्ततश्च फलश्रुतिर पबाधिता भवे. दित्याह--न त्विति । कस्येदं फलमित्यपेक्षायामाह-य एवमिति । ननु परस्य ज्योतिषो जाठरे ज्योतिष्यारोपितस्य यथोक्तगुणवतो ध्यानात्कथमिदमत्यल्पं फलमननुरूप- मुपदिश्यते तत्राऽऽह-स्वर्गलोकेति । फलवत्या विद्यायामादरो विवक्षितः ॥ ७ ॥ इति तृतीयाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ ( अथ तृतीयाध्यायस्य चतुर्दशः खण्डः । ) पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणोऽनन्तगुणवतोऽनन्तशक्ते रनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्त्वेनोपासनं विधित्सन्नाह- सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु ऋतुमयः पुरुषो यथाकतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स कतुं कुर्वीत ॥ १ ॥ .. सर्व समस्तं खल्विति चाक्यालंकारार्थो निपातः । इदं जगन्नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्म कारणं वृद्धतमत्वाद्ब्रह्म । कथं सर्वस्य ब्रह्मत्वमित्यत आह-तज्जलानिति । तस्माद्ब्रह्मणो जातं तेजोवन्नादिक्रमेण सर्वम् । अतस्त- जम् । तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते तदा- त्मतया श्लिष्यत इति तल्लम् । तथा तस्मिन्नेव स्थितिकालेऽनिति प्राणिति चेष्टत इति । एवं ब्रह्मात्मतया त्रिषु कालेजविशिष्टं तद्व्यतिरेकेणाग्रहणात् । अंतस्तदेवेदं जगत् । यथा चेदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण वक्ष्यामः । यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तो रागद्वेषादिदोषरहितः संयतः सन्यत्तत्सर्व ब्रह्म तद्वक्ष्यमाणैर्गुणरुपासीत । प्रतीकद्वारा ब्रह्मोपासनमुक्त्वा प्रतीकं हित्वा सगुणब्रह्मोपासनमुपन्यस्यति-पुन- रित्यादिना । तस्य निरुपाधिकवं व्यावर्तयति-अनन्तेति । कथमेकस्यानन्तगुणत्वं तत्राऽऽह-अनन्तशक्तेरिति । ननु पूर्वमेवास्योपासनान्यतिवृत्तानि तथाच वक्त- १ ख. घ. ञ. ठ. 'टते तदनम् । अकारलोपश्छान्दसः । इत्येवं । ण. ते तदन् । इल्येवं । २ क. ग. ट. °ति तदनस् । इत्येवं । ड. "ति । तदन् । इत्येवं । ३ न रागादि ।