पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः १४ ] छान्दोग्योपनिषत् । न १६९ व्यशेषो नास्तीत्याशङ्कयाऽऽह-अनेकेति । अनेकेषु भेदेषु गायत्र्याधुपाधिषूपास्यस्यापि ब्रह्मणो मनोमयत्वादिविशिष्टगुणत्वेन विशिष्टशक्तिमत्वेन चौपासनान्तरविधानार्थमुत्तर. वाक्पमित्यर्थः । तस्येदमा परामर्श हेतुमाह-प्रत्यक्षादीति । ब्रह्मशब्दस्य निरुपाधिकार्थः विषयत्वं व्यावर्तयति-कारणमिति । कथं तस्य ब्रह्मत्वं तत्राऽऽह-वृद्धतमत्वादिति । निरतिशयमहत्त्वादिस्यर्थः । सर्चमनूद्य तस्य ब्रह्मत्वविधाने युक्ति प्रश्नपूर्वकमाह-कथमि त्यादिना । तजं च तलं च तदनं च तज्जलान् । अवयवलोपश्चान्दसः । तत्र तज्जत्वं जगतो व्युत्पादयति-तस्मादिति । तलवमुपपादयति-तथेति । विपर्ययेण तु क्रमोऽत इति न्यायाप्रतिलोमतया जननव्युत्क्रमेण तस्मिन्चेव ब्रह्मणि लीयते जगदिति कृत्वा यथा तज्ज तथेति योजना । तत्र लयो नाम जगतः शून्यतेति शङ्का व्यावर्तयति-तदात्म- तयेति । तदनत्वे प्रतिपादयति-तथेति । यथा तज्जं तलं च तथा तदनं च जगदि. त्यर्थः । इति तदनमिति शेषः । युक्तिसिद्धमर्थ निगमयति-एवमिति । ब्रह्मव्यति- रेकेण त्रिवपि कालेषु जगतोऽग्रहणात्तदात्मत्वेना विशिष्टं जगत्तदेव स्यादिति योजना । युक्तिसिद्धमपि जगतो ब्रह्मत्वं प्रत्यक्षादिविरुद्धं नाङ्गीकारमर्हति । न हि सद्वितीयमद्वि. सीयं युक्तमित्याशङ्कयाऽऽह-यथा चति । सर्वस्य ब्रह्मत्वे फलितमाह-यस्माच्चेति । कथमुपासीत । क्रतुं कुति ऋतुनिश्चयोऽध्यवसाय एवमेव नान्यथेत्यवि- चलः प्रत्ययस्तं क्रतुं कुर्वीतोपासीतेत्यनेन व्यवहितेन संबन्धः । किं पुनः क्रतु- करणेन कर्तव्य प्रयोजनम् । कथं वा क्रतुः कर्तव्यः । क्रतुकरणं चाभिमेतार्थ. सिद्धिसाधनं कथमित्यस्यार्थस्य प्रतिपादनार्थमथेत्यादिग्रन्थः । अथ खल्विति हेत्वर्थः । यस्मात्क्रतुमयः क्रतुपायोऽध्यवसायात्मकः पुरुषो जीवः । यथाक्रतु. यादृशः क्रतुरस्य सोऽयं यथाक्रतुर्यथाध्यवसायो यादृनिश्चयोऽस्मिल्लोके जीव- बिह पुरुषो भवति तथेतोऽस्मादेहात्प्रेत्य मत्वा भवति । क्रत्वनुरूपफलात्मको भवतीत्यर्थः । एवं ह्येतच्छास्त्रतो दृष्टम् । "यं यं वापि स्मरन्भाचं त्यजत्यन्ते कलेवरम् ॥ इत्यादि । यत एवं व्यवस्था शास्त्रदृष्टाऽतः स एवं जानन्क्रतुं कुति यादृशं क्रतुं वक्ष्यामस्तम् । यत एवं शास्त्रपामाण्यादुपपद्यते क्रत्वनुरूपं फलमत्तः स कर्तव्यः क्रतुः ॥१॥ कियन्तं कालं प्रत्ययमावर्तयेदित्याकाङ्क्षापूर्वकं तत्त्वनिश्चयपर्यन्तमिति दर्शयितुं व्यव- १ ख. छ. ब ण. तर विधातुम । २ ग. ट. 'त्तरं वा । ३ ण. वर्णलो। ४ ख. ग. छ. ऊ. ट. . "णि विली । ५ क. ख. घ. च. त्र. ठ. ण. त । स क । ६ म. र.उ. ड. ण चाऽभि । ७ अ. 'स्त्र प्रमाणादु ।