पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता--[ ३ तृतीयाध्याये-- हितं वाक्यमवतार्य व्याचष्टे-कथमित्यादिना । उपासीतेत्यस्य क्रतुं कुर्वीतेत्यनेन व्यव- हितेन संबन्ध इति योजना । क्रस्यनुष्ठानस्य फलं पृच्छति -किं पुनरिति । तत्र क्रतु. करणं च केन प्रकारेणेति प्रश्नान्तरं दर्शयति-कथं वेति । ब्रह्मभावसाधनत्वात्क्रतुकर- णस्य फलप्रश्नो नास्तीत्याशङ्कयाऽऽह--क्रतुकरणं चेति । न हि जीवस्य स्थितस्य नष्टस्य वा सद्भावः संभवतीति भावः । क्रतुकरणस्येदं प्रयोजनं स च क्रतुरेवं क्रियते तत्करणं वाऽनया रीत्या ब्रह्मसद्भावे साधयतीत्यस्यार्थजातस्य प्रतिपादनार्थमा: खण्डस- माप्तेरथेत्यादिरुत्तरो ग्रन्थ इत्याह-इत्यस्यार्थस्योति । अथ खल्वित्यत्र पूर्ववत्खलुशब्दोऽ. थशब्दस्तु हेत्वर्थ इत्यत्र हेतुरूपमर्थ विवृणोति-यस्मादिति । यद्वाऽथेत्यारभ्य पुरुष इत्यन्तो ग्रन्थो हेत्वर्थ इ युक्वा तमेव हेतुरूसमर्थ दर्शयति-यस्मादिति । यथाक्रतुरि- त्यस्मादधस्तात्तस्माच्छब्दो द्रष्टव्यः । अस्मिल्लोक इति श्रुतिमादाय व्याचष्ट-जीवन्नि- हति । इह वर्तमाने देहे जीवन्सन्निति यावत् । क्रतुकरणेन किं कर्तव्यं फलमिति प्रश्न •व्याचष्टे-तथेति । क्रत्वनुरूपफलात्मकाः पुरुषस्य स्मृति संवादयति-एवं हीति । शास्त्रमेवोदाहरति--यं यमिति । कथं वा क्रतुः कर्तव्य इति प्रश्नं प्रत्याह-यत इति । क्रत्वनुरूपफलात्मकः पुरुषो भवतीत्येवंरूपा व्यवस्थेति यावत् । एवं जानन्क्रत्वनु. रूपं फलमिति शास्त्रतः पश्यन्नित्यर्थः । कोऽसौ ऋतुरित्याशङ्कयाऽऽह-याशमिति । स क्रतुं कुतित्यस्यार्थ निगमयति-यत एवभिति ॥ १ ॥ मनोमयः प्राणशरीरों भारूपः सत्यसंकल्प आका- शात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्व- मिदमस्यात्तोऽवाक्यनादरः ॥ २॥ कथम् । मनोमयो मनःप्रायः । मनुतेऽनेनेति मनस्तत्स्ववृत्त्या विषयेषु प्रवृत्तं भवति तेन मनसा तन्मयः । तथा प्रवृत्त इव तत्मायो निवृत्त इव च । अत एव प्राणशरीरः प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितः। ." यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः" इति श्रतः । स शरीरं यस्य स प्राणशरीरः । “ मनोमयः प्राणशरीरनेता " इति च श्रुत्यन्तरात् । भारूपः । भा दीप्तिश्चैतन्यलक्षणं रूपं यस्य स भारूपः । क्रतुकरणप्रकारमेव प्रश्नपूर्वकं प्रकटयति-कथमित्यादिना । कथमिदं मन:- - १ ग. ट. णं वेति । २ क. °णं चान । ३ ख. छ. अ. ण. त्मत्वे । ४ ख. छ. अ. ण. वे व्याचष्टे । य° । ५ ख. घ. च. अ. ठ. °व वा । अ । ६ घ. च.ठ. तः । प्राणः श° 1 ङ. ड. द.तःश । ७ प. उ. क्षणा | .. .