पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः १४ छान्दोग्योपनिषत् । १७१ प्रायत्वमित्यपेक्षायां मनःशब्दार्थप्रदर्शनपूर्वकं तत्प्रायत्वं व्युत्पादयति-मनुत इति । मनो- द्वारा तदुपाधिः पुरुषो विषयप्रवणो भवतीत्यर्थः । तत्प्रायवफलमःह-तथेति । पुरुषों हि तत्प्रायः सन्मनसि प्रवर्तमाने स्वयमपि तद्वदेव प्रवृत्त इव लक्ष्यते । तथा निवर्तमाने मनसि निवृत्त इव चावगम्यते । वस्तुतस्तु पुरुषो न प्रवृत्तो निवृत्तो वा ध्यायतीवेत्यादि- श्रुतेरित्यर्थः । अत एव मनोमयत्वादेवेति यावत् । संमूर्छतत्वं संपिण्डितत्वम् । विज्ञान शक्तः क्रियाशक्तेश्चैकरिमन्नेव लिङ्गात्मनि संपिण्डितत्वे श्रुत्यन्तरं प्रमाणयति-यो वा इति। आथर्वणी श्रुतिं यथोक्ते विशेषणद्वये प्रमाणयति-मनोमयः प्राणेति । मनोवृत्तिभिर्विभाव्य- मानत्वादात्मा मनोमयः प्राण एव प्रत्यगात्मनः सूक्ष्मं शरीरं तस्य चासौ स्थूलादेहादेहान्तरं प्रति नेतेत्याथर्वणश्रुतेरात्मनि विशेषणद्वयसिद्धिः । एतच्च विशेषणद्वयं जीवगतमपि तदभे- दविवक्षया ब्रह्मणि द्रष्टव्यमित्यर्थः । सत्यसंकल्पः । सत्या अवितथाः संकल्पा यस्य सोऽयं सत्यसंकल्पः । न यथा संसारिण इवानकान्तिकफलः संकल्प ईश्वरस्येत्यर्थः । अनुतेन मिथ्याफ. लत्वहेतुना प्रत्यूढत्वात्संकल्पस्य मिथ्याफलत्वम् । वक्ष्यत्यनृतेन हि मत्यूढा इति । आकाशात्मा । आकाश इवाऽऽत्मा स्वरूपं यस्य स आकाशात्मा । सर्व- गतत्वं सूक्ष्मत्वं रूपादिहीनत्वं चाऽऽकाशतुल्यतेश्वरस्य । सर्वकर्मा । सर्व विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्मास्य स सर्वकर्मा । “ स हि सर्वस्य कर्ता" इति श्रुतेः । सर्वकामः । सर्वे कामा दोषरहितो अस्येति सर्वकामः । “ धर्मावि. रुद्धो भूतेषु कामोऽस्मि " इतिस्मृतेः । ननु कामोऽस्मीति वचनादिह बहुव्रीहिर्न संभवति सर्वकाम इति । न, कामस्य कर्तव्यत्वाच्छब्दादिवत्पारार्थ्यप्रसङ्गाच्च देवस्य । तस्माद्यथेह सर्वकाम इति बहुव्रीहिस्तथा कामोऽस्मीतिस्मृत्यर्थो वाच्यः। सत्यसंकल्प इत्यत्र विशेषणेन ध्वनितमर्थं दर्शयति-न यथेति । इत्रशब्दस्तथार्थः । कथं संसारिसंकल्पस्यानकान्तिकफलत्वं तत्राऽऽह-अनृतेनेति । संकल्पस्यानृतेन संसा. रिणि प्रत्यूढत्वे वाक्यशेषं प्रमाणयति-वक्ष्यतीति । जडाजडयोराकाशेतरयोर्न :तुल्यतेत्या- शङ्कयाऽऽह-सर्वगतत्वमिति । सर्वकर्मेति सर्वक्रियाश्रयत्वमीश्वरस्योच्यते तदयुक्तं निष्क्रियावश्रतरित्याशङ्कय व्याचष्टे-सर्वामिति । संसारिभ्यो विशेषसिद्धयर्थं विशिनष्टि- दोषरहिता इति । उदाहँतां स्मृतिमाश्रित्योक्तमाक्षिपति-नन्विति । कामसामानाधिक- १च. ता यस्ये । २ क. च. ण. ति स स । ३ . छ. . ४ क: हतस्म | . “दाइ म ।