पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ आनन्दगिरिकृतीकासंवलितवाकरभाष्यसमेता- [३तृतीयाध्याये- रध्ये बाधकोपलम्भाबहुव्रीहिरेवेति परिहरति-न कामस्यति । तस्य कार्यत्वात्तदैक्ये ब्रह्मणोऽनादित्वं बाध्यते चेतनशेषत्वाच्च कामस्य तदैक्ये ब्रह्मणः स्वातन्त्र्यं हीयते । तथा च कर्मधारयासंभवाद्वहुव्रीहिरवेत्यर्थः । कथं तर्हि कामोऽस्मीति तादात्म्यस्मतिरित्याश- कयाऽऽह-तस्मादिति । कामेश्वरयोः सामानाधिकरण्यासंभवात्प्रकृतश्रुतौ बहुव्रीहियथे- टस्तथा स्मृतावपि ब्रह्मपारतन्त्र्यमानं कामस्य विवक्षितम् , श्रुत्यनुसारेण स्मृते तव्यत्वा- दित्यर्थः । सर्वगन्धः । सर्वे गन्धाः सुखकरा अस्य सोऽयं सर्वगन्धः । “ पुष्यो गन्धः पृथिव्याम्" इति स्मृतेः । तथा रसा अपि विज्ञेयाः । अपुण्यगन्धरसग्रहणस्य पाप्मसंवन्धनिमित्तत्वश्रवणात ।" तस्मात्तेनोभयं जिघ्रति सुरभि च दुगॅन्धि च । पाप्मना ह्येष विद्धः” इति श्रुतेः । न च पामसंसर्ग ईश्वरस्य । अविद्या- दिदोषस्यानुपपत्तेः। सर्वशब्दादुर्गन्धानामनि ब्रह्मणि प्राप्तौ विशिनष्टि-सुखकरा इति । सर्वशब्दसंकोचे कारणमाह-पुण्य इति । यथा सर्वमन्ध इत्यत्र सुखकरा गन्धा ब्रह्मसंबन्धिनों दर्शितास्तथा सर्वरस इत्यत्रापि सुखकरा एव रसास्तत्संबन्धिनो ब्रह्मा इत्याह-तथेति । अत्रापि सर्वशब्दसंकोचे कारणमाह-अपुण्यति । न तद्ग्रहणं परस्मिन्निति शेषः । तच्छब्दार्थमेवोपपादयति-पाप्मना होति । एस इति घ्राणप्राणोक्तिः । भवतु पाप्मसंसर्गकृतमपुण्यमन्धादिग्रहणं तथाऽपि कथं तदीश्वरे सर्वज्ञे नास्तीत्याशङ्कयाऽऽह- न चेति । निमित्ताभावादीश्वरस्य न स्वसंबन्धित्वेनापुण्यगन्धादिग्रहणमित्यर्थः । तस्य पाप्मासंसमें हेतुमाह--अविद्यादीति । आदिपदेना स्मितारागद्वेषाभिनिवसादयो। गृह्यन्ते। सर्वमिदं जगदभ्यात्तोऽभिव्याप्तः । अततेाप्त्यर्थस्य कर्तरि निष्ठा । तथाऽवाक्युच्यतेऽनयेति वाग्वागेव वाकः । यद्वा वचेर्घअन्तस्य करणे वाकः । स यस्य विद्यते स वाकी न वाक्यवाकी । वाक्प्रतिषेधश्चात्रोपलक्षणार्थः । गन्धरसादिश्रवणादीश्वरस्य प्राप्तानि घ्राणादीनि करणानि मन्धादिग्रहणाय । अतो वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि । “ अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शणोत्यकर्णः" इत्यादिमन्त्रवणात । अनादरोऽसंभ्रमः। अप्रामपामो हि संभ्रमः स्यादनासकामस्य । न त्वाप्तकामत्वान्नित्य तमस्येश्व- रस्य संभ्रमोऽस्ति कचित् ॥ २॥ अभ्यात्त इति रूपं तदर्थं च दर्शयन्कर्मणि निष्ठां व्यावर्तयति-अततेरिति । १ क. म. ट. बाध्येतः । २ घ. ङ. इ. ढ. . 'दोशनु । ३. ग. ह. द. ड. . क । १ ख. ज. तृतेश्च ।