पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ३ तृतीयाध्याये- यस्य स्थादद्धा न विचिकित्साऽस्तीति ह स्माऽऽह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥ इति तृतीयाध्यायस्य चतुर्दशः खण्डः ॥ १४॥ यथोक्तगुणलक्षण ईश्वरो ध्येयो न तु तद्गुणविशिष्ट एव । यथा राजपुरुष. मानय चित्रगुं वेत्युक्ते न विशेषणस्याप्यानयने व्याप्रियते तद्वदिहाँपि प्राप्तमत- स्तन्निवृत्त्यर्थं सर्वकर्मेत्यादि पुनर्वचनम् । तस्मान्मनोमयत्वादिगुणविशिष्ट एवे- श्वरो ध्येयः । अत एव षष्ठसप्तमयोरिव तत्त्वमस्यात्मवेदं सर्वमिति नेह स्वारा- ज्येऽभिषिञ्चत्येष म आत्मैतीतमितः प्रेत्याभिसंभक्तिास्मीति लिङ्गान्न त्वात्मशब्देन प्रत्यगात्मैवोच्यते । ममेति षष्ठ्याः संबन्धार्थप्रत्यायकत्वादेतमभि- संभवितास्मीति च कर्मकर्तृत्वनिर्देशात् ।। । यस्तैर्लक्ष्यते स एवेश्वरः केवल इति यावत् । ईश्वरो यथोक्तगुणो ध्येय इत्युक्ते गुणा- नामपि ध्यानकर्मत्वं दुर्वारमित्याशङ्कयाऽऽह-यथेति । पुनरुक्तिफलमुपसंहरति- तस्मादिति । सगुणस्येश्वरस्य ध्येयवे गमकान्तरमाह--अत एवेति । स्वरूपवाचक- स्याऽऽत्मनः श्रुत्यनुपपत्तेर्न तहलादद्वैतवाक्यार्थसिद्धिरित्यर्थः । ननु षष्ठेऽप्यथ संपत्स्य इति सत्संपत्तेः कालान्तरितत्वं दर्शयति । न, आरब्धसंस्कारशेषस्थित्यर्थपरत्वात् । न कालान्तरितार्थता । अन्यथा तत्त्वम- सीत्येतस्यार्थस्य बाधप्रसङ्गात् । यद्यप्यात्मशब्दस्य प्रन्यगर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतभेष म आत्माऽन्तहृदय एतब्रह्मेत्युच्यते, तथाऽप्यन्तर्धानमीष- दपरित्यज्य वैतमात्मानभितोऽस्माच्छरीरात्मेत्याभिसंभवितास्मीत्युक्तम् ।। भेदलिङ्गाच्चदिह भेदो विवक्षितस्तहि षष्ठेऽपि तल्लिङ्गदर्शनान्नाखण्डवाक्यार्थसिद्धिरित अडोनन्विति । नात्र भेदो विवक्षितः । आरब्धः संस्कारः सुखादिन कर्मणा तच्छेवस्थितौ तात्पर्यादिति परिहरति--नाऽऽरब्धेति । सत्संपत्तौ कालान्तरितत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्कयाऽऽह--नेति । कालान्तरभावित्वे संपत्तेरिष्टे तत्त्वमसीति ब्रह्मभावस्य वर्तमानोपदेशानुपपत्तरिति हेतुमाह--अन्यथेति । ननु प्रकरणानुगृहीताभ्या- मात्मब्रह्मशब्दाभ्यामत्रापि ब्रह्मात्मैक्यमेव विवक्षितमित्यत आह-यद्यपीति । लिङ्गानुगृही. तषष्ठीश्रतिवशाप्रकरणानुगृहीते श्रुती कथंचिन्नेतव्ये प्रकरणश्रुतिभ्यां लिङ्गश्रुत्योर्बलवत्त्वा- दात्मश्रुतेश्वान्यथोपपत्तरुक्तत्वादिति भावः । क. ग. घ. ङ च. ट. ठ. ढ. गुं चेत्यु । २स. अ. ण. माया । ३ घ. ड. उ. ण. 'हापीति प्रा । ४ ट. ड. थं पुनः स । ५ ठ. इ. 'दि वच। ६ च. ड. ज्यैत । ७ ख, छ, ञ, ण. ति । न तत्र ।