पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[३ तृतीयाध्याये- इवानेकधर्मसादृश्यात्कोशः । स च भूमिबुध्नो भूमिर्बुध्नो मूलं यस्य स भूमि चुध्नो न जीति न विनश्यति त्रैलोक्यात्मकत्वात् । सहस्रयुगकालावस्थायी हि सः। दिशो ह्यस्य सर्वाः सक्तयः कोणाः । चौरस्य कोशस्योत्तरमूर्ध्वं विलं स एष यथोक्तगुणः कोशो वसुधानो वसु धीयतेऽस्मिन्माणिनां कर्मफलाख्य. मतो वसुधानः । तस्मिन्नन्तर्विश्वं समस्त प्राणिकर्मफलं सह तत्साधनैरिदं यद्- गृह्यते प्रत्यक्षादिप्रमाणः श्रितमाश्रितं स्थितमित्यर्थः ॥ १॥ शाण्डिल्यविद्यया समनन्तरग्रन्थस्य संबन्धो नास्तीत्याशङ्कय व्यवहितेन संबन्धं दर्शयि- तुमनुवदति---अस्येति । संप्रत्युत्तरग्रन्थस्य तात्पर्य वक्तुं भूमिकां करोति-न वीरेति । तत्र बृहदारण्यकश्रुति प्रमाणयति-तस्मादिति । पुत्रस्य लोक्यत्वादिति यावत् । अनु- शासनेन विषयीकृतस्य पुत्रस्य लोकप्राप्तिसाधनत्वादनुर्शीसनं वेदाध्ययनम् । पुत्रजन्मो- क्त्यनन्तरमेव किमित्येतद्विज्ञानं नोपदिष्टमित्याशङ्कयाऽऽह-अभ्यहितेति । गायत्र्युपा- धिकब्रह्मोपासनस्य कौक्षये ज्योतिष्यारोप्य परब्रह्मोपासनमभ्यर्हितं तस्य च मनोमयस्वादि- गुणकब्रह्मोपासनमन्तरङ्गम् । तथा च तद्वचनेन वैयग्र्यादनन्तरमेव कोशविज्ञानं नोक्तमिति निवृत्ते तु व्यासङ्गे तदृष्टिरिदानी यथोक्तफलसिद्धयर्थमुच्यत इत्यर्थः । कोशशब्देन हिर- ण्यादिनिक्षेमधारा मञ्जूषोच्यते । कथं त्रैलोक्यात्मनः कोशत्वं तत्राऽऽह-कोश इवेति । अनेकधर्मसादृश्यं विशदयनि-स चेति । तथाऽपि कथमविनाशित्वं तत्राऽऽह-सह- सेति । त्रैलोक्यात्मनि कोशदृष्टिस्तत्रापि भूमौ बुध्नदृष्टिरित्युक्तम् । कोशस्य च सापेक्षम- चिनाशित्वं ध्येयत्वेन दर्शितम् । संप्रति दिक्षु कोशकोणदृष्टिः कर्तव्येत्याह-दिशो हीति । दिवि कोशस्योर्ध्वबिलवबुद्धिं दर्शयति-द्योरिति । यथोक्ते कोशे वसुधानाव. दृष्टिं दर्शयति-यथोक्तेति । तदेव समर्थयते-तस्मिन्निति ॥ १॥ तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तास वायु- वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्र- रोद रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोद रुदम् ॥२॥ १ ण. °ककोश । २ ग. ङ. ठ. ड. ढ. मत्वा । ३ क. ग. उ. विद्याथाः सरक. शासितस्य । क. ले तव्यास । ६ ख. न. ण पेक्ष्यम ।