पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः खण्डः १६] - छान्दोग्योपनिषत् ।। १७९ ____ कदा पुनरेषां मन्त्राणां जप इत्यपेक्षायां पूर्वोक्तप्रधानविद्यानन्तरमित्याह--उपरि- टादिति । ध्यात्वोपरिष्टादिति संबन्धः । यथोक्ते विज्ञाने जपे वाऽऽदरः ॥ ७ ॥ इति तृतीयाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ (अथ तृतीयाध्यायस्य षोडशः खण्डः ।) पुत्रायुप उपासनमुक्तं जपश्च । अथेदानीमात्मनो दीर्घजीवनायेदमुपासनं जपं च विदधंदाइ । जीवन्हि स्वयं पुत्रादिफलेन युज्यते नान्यथा। इत्यत आत्मानं यज्ञं संपादयति- पुरुषो वाव यज्ञस्तस्य यानि चतुर्विशति- वर्षाणि तत्मातःसवनं चतुर्विशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीद स वासयन्ति ॥ १॥ पु.पः पुरुषो जीवनविशिष्टः कार्यकरणसंघातो यथाप्रसिद्ध एव । वाव- शब्दोऽवधारणार्थ: । पुरु। एव यज्ञ इत्यर्थः। वृत्त नूय पुरुषो वावेत्यादिखण्डान्तरमवतारयति-पुत्रायुष इति । किमित्यात्मनो दीर्घ जीवनं समति तत्राऽऽह--जीवति । यथोक्तफलहेतुभूतां विद्यामुग्थापयति-- इत्यत आत्मानमिति । कथं *पूर्वयाऽऽनो यज्ञवं संपाद्यते तत्राऽऽह- पुरुष इति । तथा हि सामान्यैः संपादयति यज्ञत्वम् । कथम् । तस्य पुरुषस्य यानि चतुर्वि- शतिवर्षाण्यायुपस्तत्प्रातःसवनं पुरुषाख्यस्य यज्ञस्य । केन सामान्येनेत्याह--चतु. विशत्यक्षरा गायत्री छन्दो गायत्रं गायत्रीछन्दसहि विधि यज्ञस्य प्रातःसवनम् । अतः प्रातःसवन संपन्नेन चतुर्विशतिवर्षायुषा युक्तः पुरुषः । अतो विश्यिज्ञसा. दृश्याद्यज्ञः । तथोत्तरयोरप्यायुपोः सवनदयसंपत्तिरिष्टुब्जगत्यक्षरसंख्यासामा- न्यतो वाच्या। अवधारणार्थ समर्थयते--तथा होति । यज्ञायययसादृश्यात्पुरुषे यज्ञदृष्टिः कर्तव्ये-

  • पूर्वस्येत्यस्य स्थाने भूतस्येति तथा यज्ञत्वमित्यस्य स्थाने भन्यत्वमिति ख. संशितपुस्तके

टिप्पणं दृश्यते । व... उत्तमुपारनं ज°। २ क. धत्तदा । ३ ख. अ. ण. र्यकार' । ४ क. थं पुरुषस्याऽऽ 1 ५ ग. घ. च. ट. ठ. ह. द. दो छ । ६ क. हीत्यादिना । य ।