पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[३तृतीयाध्याये-- प्राप्तिनिमित्तं यदैवजातीयकं दुःखमनुभवति ता अस्य दीक्षा । दुःखसामा. न्याद्विधियज्ञस्येव ॥ १॥ ननु पूर्वेणाऽऽशीर्वादप्रयोगेणोदाहरणेनैव समनन्तरमन्थस्य संबन्धो नोपलभ्यते तत्राऽऽह--स यदिति । पूर्वेण तस्य यानि चतुर्विंशतिवर्षाणीत्यादिना सादृश्यनिर्देशे. नेत्यर्थः । एवंजातीयकमशनायादिकृतमिति यावत् । अशिशिषादिषु दीक्षादृष्टौ हेतुमाह-- दुःखेति ॥ १॥ अथ यदनाति यत्पिबति यदमो तदुपसदैरेति ॥ २ ॥ अय यदनाति यत्पिबति यद्रमते रतिं चानुभवतीष्टादिसंयोगानदुपसदैः समानतामेति । उपसदां च पयोव्रतत्वनिमित्तं सुखमस्ति । अल्पभोजनीयानि चाहान्यासन्नानीति प्रश्वासोऽतोऽशनादीनामुपसदां च सामान्यम् ।।२।। दीक्षावचनसादृश्यात्पुरुषस्य यज्ञत्वमुक्तमिदानीमुपसदुपेतत्वसादृश्यादपि तस्य यज्ञत्वं विज्ञेयमित्याह-अथेति । अशनादिषु कथमुपसदृष्टिस्तनाऽऽह --उपसदां चेति । पयोव्रतत्वं पयोभक्षण क्तव्यम् । यज्ञे यान्यहान्यल्पभोजनीयानि प्रसिद्धानि तानि चोप- सत्सु क्रियमाणान्यासन्नानीति तासु प्रश्वासः स्वास्थ्यविशेषः । अशनादिषु च सोऽस्तीति प्रसिद्धमिति भावः । सुनिमित्तत्वं क्लेशनिवृत्तिहेतुत्वं च सामान्यम् ॥ २ ॥ अथ यद्धमति यज्जक्षति यन्मैथुनं चरति स्तुतश- स्त्रैरेव तदेति ॥ ३॥ अथ यद्धसति यज्जक्षति भक्षयति यन्मैथुनं चरति स्तुतशस्त्रैरेव तत्समा- नतामेति । शब्दवत्त्वसामान्यात् ।। ३ ॥ स्तुतशस्त्रवैशिष्टयसाम्यादपि पुरुषस्य यज्ञस्वमित्याह-अथ यदिति । हासादिषु स्तुतशस्त्रदृष्टौ हेतुमाह-शब्दवत्त्वति ॥ ३॥ अथ यत्तपो दानमार्जवमहिम्सा सत्यवचनामति ता अस्य दक्षिणाः ॥ ४॥ अथ यत्तपो दानमा महिंसा सत्यवचनमिति ता अस्य दक्षिणाः । धर्मपुष्टिकरत्वसामान्यात् ॥ ४ ॥ १ञ, न्याश्वासनानी । २ ख. छ । ण. तमु । ३ क. ख. ग. छ. . . न्यभो । ४ ख. ग. छ. ञ. ट. ण. न्याश्चासनानी । ५.म, घ, टः मित्यर्थः । ६ क. तस्सामान्यो । ७ घ, ठ. ड. मतुष्टि।