पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ३तृतीयाध्याये- तृतीयं यजुः । तत्रैतस्मिन्नर्थे विद्यास्तुतिपरे द्वे ऋचौ मन्त्रौ भवतो न जपार्थे । त्रयं प्रतिपद्यतेति त्रित्वसंख्याबाधनात् । पञ्चसंख्या हि तदा स्यात् ॥ ६॥ पुरुषे यज्ञदृष्टिरुक्ता संप्रति विशिष्टपुरुषसंबन्धेन विद्या स्तोतुं विद्याङ्गं च ज विधा- तुमुपक्रमते-तद्धेतदिति । देवकीपुत्रस्यैतदर्शनश्रवणफलमाह--स चेति । किमर्थेय गुरुशिष्याख्यायिकेत्याह-इत्थं चेति । अक्षितमसीति कीदृशा देवतां प्रत्युच्यते तत्राऽs- ह--सामर्थ्यादिति । निकृष्टस्य स्तुतिसंब-धायोगात्पुरुषयज्ञे सबनदेवतान्तरानुपपत्तेश्च प्राणानामेवाऽऽधिदैविक रूपमादित्याख्यं जप्यमन्त्रार्थत्वेन संबध्यत इत्यर्थः । द्वितीयम- वस्यार्थान्तरं वारयति-तथति । प्रथममन्त्रवदित्यर्थः । न च द्वयोरेकार्थत्वे सत्यन्यत- रस्य चैयर्थं द्वयोरपि जप्यत्वेनोपयुक्तस्वादिति द्रष्टव्यम् । मन्त्रत्रयप्रतिपाद्यं सावित्रं तत्त्वम- ग्भ्यामपि प्रतिपादितमिति प्रत्ययदाढर्थिमाह-तत्रति । किमिति विद्यास्तुतिपरत्वमन- योरिष्यते जपार्थत्वमेव किं न स्यात्त्राऽऽह-~-नेत्यादिना । अनयो पार्थत्वेऽपि त्रित्व- संख्यायाः सत्वान्न सा बाध्येत्याशङ्कयाऽऽह-पश्चेति । अनयोर्जप्यत्वे पञ्चकं प्रतिपद्यतेति पञ्चसंख्याया वक्तव्यत्वात्रित्वं बाधित स्यादित्यर्थः ॥ ६ ॥ आदित्पत्नस्य रेतसः । उदयं तमसस्परि ज्योतिः पश्यन्त उत्तर५ स्वः पश्यन्त उत्तरं देवं देवत्रा सूर्य- मगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ७ ॥ इति तृतीयाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ आदिदित्यत्राऽऽकारस्यानुबन्धस्तकारोऽनर्थक इच्छब्दश्च । प्रत्नस्य चिर्स तनस्य पुराणस्येत्यर्थः । रेतसः कारणस्य बीजभूतस्य जगतः सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति । आशब्द उत्सृष्टानुबन्धः पश्यन्तीत्यनेन संबध्यते । किं तज्ज्योतिः पश्यन्ति । वासरमहरहरिव तत्सर्वतो व्याप्तं ब्रह्मणो ज्योतिः। निवृत्तचक्षुषो ब्रह्मविदो ब्रह्मचर्यादिनिवृत्तिसाथैनः शुद्धान्तःकरणा आ सम- न्ततो ज्योतिः पश्यन्तीत्यर्थः। १ ग. ट. त्याशङ्कक ऽऽह । २ ग. ढ. कीनीभू' । ३ क. ख. ग. ऊ. च. अ. ट. ड. ढण. धनेन शु।