पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८७ सप्तदशः खण्डः १७] छान्दोग्योपनिषत् । परः परमिति लिङ्गव्यत्ययेन, ज्योतिष्परत्वात् । यदिध्यते दीप्यते दिवि योतनवति परस्मिन्ब्रह्मणि वर्तमानम् । येन ज्योतिषेद्धः सविता तपति चन्द्रमा भाति विद्युद्विद्योतते ग्रहतारागण विभासन्ते ।। "आदित्पत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि" इति मन्त्रस्य प्रतीकग्रहणमादित्प्रत्नस्य रेतस इति, तत्पदच्छेदपूर्वकं व्याचष्टे-आदित्यादिना । इच्छब्दश्चानर्थक इति र्वेण संबन्धः । किं तत्कारणमित्यपेक्षायां, सदेवें सोम्येदमित्यादि- श्रुतिसिद्धं ब्रह्मेत्याह-सदाख्यस्यति । आनन्दं ब्रह्मणो विद्वानितिवत्प्रत्नस्य ज्योति- रिति संवन्धो द्रष्टव्यः । उत्सृष्टानुबन्धो ध्वस्ततकारः स इति यावत् । ननु ब्रह्मस्वरूपभू- तभेतज्ज्योतिनव सर्वे पश्यन्तो दृश्यन्ते तत्राऽऽह-निवृत्तचक्षुष इति | निवृत्तानि विमुखीकृतानि विषयेभ्यश्चदंषि करणानि येषां ते तथा । अत एव ब्रह्मविदः, “कश्चि- धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ” इति श्रुत्यन्तरम् । तत्रैवोपायान्तरं सूच- यति ब्रह्मचर्यादीति । " स्मरणं कीर्तनं केलिः प्रेक्षण गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्ग प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्" [ इत्युक्त] ब्रह्मचर्यम् । आदिपदेनाहिंसास्तेयादयो गृह्यन्ते । एतैर्निवृत्तिप्रधान; साधनैः शुद्धमुद्दीपितमन्तःकरणं येषां ते तथा । व्यत्यये हेतुमाह-ज्योतिष्परत्वादिति । यत्स्वमहिं. मप्रतिष्ठितं दीप्यते तत्परं ज्योतिरिति संबन्धः । दीप्यमानत्वं विवृणोति-येनेति । किंचान्यो मन्त्रहगाह यथोक्तं ज्योतिः पश्यन् । उद्वयं तमसोऽज्ञानलक्षणा- त्परि परस्तादिति शेषः । तमसो वाऽपनेत यज्योतिरुत्तरमादित्यस्थं परिप- श्यन्तो वयमुदगन्मेति व्यवहितेन संबन्धः । तज्ज्योतिः स्वः स्वमात्मीयमस्म. ढदि स्थितम् । आदित्यस्थं च तदेकं ज्योतिः। यदुत्तरमुत्कृष्टतरमूर्ध्वतरं वाऽपरं ज्योतिरपेक्ष्य पश्यन्त उदगन्म वयम् । के मुदगन्मत्याह । देवं द्योतनवन्तं देवत्रा देवेष सर्वेष सूर्य रसानां रश्मीनां माणानां च जगत ईरणात्सूयेस्तमदगन्म गतवन्तो ज्योतिरुत्तमं सर्वज्योतिर्म्य उत्कृष्टतममहो प्राप्ता वयमित्यर्थः । इदं १ घ. ङ. च. ढ. ण. 'णा दिवि । २ क. व सौम्ये | ३ क. मितिश्रु' । ४ क. तिर्न च स । क. श्यन्ति त° 1 ६ क. ट. 'त्ययस्य हे । ७.क. हिम्नि । ८ क. "तिष्ठद्दीप्य । ग. ट, तिष्टं दी । ९ क. ग. कथमु ।