पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[३ तृतीयाध्याये-- तज्ज्योतियदृग्भ्यां स्तुतं यद्यजुस्त्रयेण प्रकाशितम् । द्विरभ्यासो यज्ञकल्पनापार- समाप्त्यर्थः ॥ ७॥ इति तृतीयाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ मन्त्रान्तरमवतास्यति-किचेति । इतश्च विद्यास्तुत्यर्थंति यावत् । किमाहेत्यपेक्षायां द्वितीयं मन्त्रमादत्ते-उद्वयमिति । तं व्याकरोति–तमस इत्यादिना । तस्यैव ज्योतिषः प्रभाने ज्योति न्यदस्तीत्यर्थः । देवत्वेन प्रत्यगात्मत्वमाह -स्वरिति । तयोरे- कत्वं स यश्चायमित्यादिषु श्रुत्यन्तरसिद्धं दर्शयति-आदित्यस्थमिति । तत्पदार्थं त्वंपदार्थ चोक्त्वा तयोरैक्यमुक्तमिदानीमेकीभूतं ज्योतिर्विशिनष्टि—यदत्तरमिति । एकवीफलं कथयति-पश्यन्त इति । फलमेव प्रश्नपूर्वकं विवृणोति-कमित्यादिना । फलविषय स्वानुभवं दर्शयति-अहो इति । मन्त्राणां मन्त्रयोश्चैकवाक्यत्वमुपसंहरति-इदं तदिति।। इति तृतीयाध्यायस्य सप्तदशः खण्डः ॥१७॥ ( अथ तृतीयाध्यायस्याष्टादशः खण्डः ) मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्म चाधिदैवतं च ॥१॥ मनोमय ईश्वर उक्त आकाशात्मेति च ब्रह्मणो गुणैकदेशत्वेन । अथेदानी मनआकाशयोः समस्तब्रह्मदृष्टिविधानार्थ आरम्भो मनो ब्रह्मेत्यादि । मनों मनुतेऽनेनेत्यन्तःकरणं तद्ब्रह्म परभित्युपासीतेति एतदात्मविषर्य दर्शनमध्यात्मम्। अथाधिदैवतं देवताविषयमिदं वक्ष्यामः । आकाशो ब्रह्मेत्युपासीत । एवमुभ- यमध्यात्ममधिदैवतं चोभयं ब्रह्मदृष्टिविषयमादिष्टमुपदिष्टं भवति । आकाशम- नसोः सूक्ष्मत्वात् । मनसोपलभ्यत्वाच्च ब्रह्मणो योग्यं मनो ब्रह्मदृष्टेः । आका- शश्च सर्वघ्तत्वात्सूक्ष्मत्वादुपाधिहीनत्वाच्च ।। १॥ १ख. अ. णा. 'र्यवाभ्यामृग्भ्यां । रघ. ठ. "तं प्रकाशितं यः । ३ घ. च. छ. ण.. "नास। ४ ख. अ. ण. तीयम। ५ क. ग. ट. स्त्र इति । ६ ग, ट. कधी । ७ क... ग.. ऊथतिः । ८ ञ. ड..त् । ९ ग. वाद्रूपा ।