पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८९ अष्टादशः खण्डः १८] छान्दोग्योपनिपत् । ननु यज्ञविज्ञानेन वक्ष्यमाणविज्ञानस्य न संगतिरस्तीति कथं पौर्वापमित्याशङ्कयान- न्तरखण्डस्य व्यवहितेन संबन्धमाह--मनोमय इति । इति चेश्वर उक्त इति पूर्वेण संबन्धः । तत्र ब्रह्मणो गुणयोरेकदेशत्वेन मन आकाशश्चोक्त इत्याह--ब्रह्मण इति । यथोक्तगुणकब्रह्मदृष्टया समर्थस्य तयोरेव संपूर्णब्रह्मदृष्टिकथनार्थमुत्तरग्रन्थमवतारयति-- अथेति । एवमुभयमुपदिष्टं भवतीति संबन्धः । तदेवोभयं विभजते-अध्यात्ममिति । कथं मनोदृष्टिविषयत्वेनाध्यात्म मनो ब्रह्मेत्युपासनं विधिस्यते तत्राऽऽह--मनसेति । तथाऽपि कथं ब्रह्मदृष्टेराकाशं विषयी भवति न हि तेनोपलभ्यते ब्रह्मेत्याशङ्कयाऽऽह- आकाशश्चेति । ब्रह्मदृयोग्यमिति पूर्वेण संबन्धः ॥ १ ॥ तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतममिः पादो वायुः पाद आदित्यः पादों दिशः पाद इत्युभयमेवाऽऽदिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २॥ तदेतन्मनआख्यं चतुष्पाब्रह्म, चत्वारः पादा अस्योति । कथं चतुष्पावं मनसो ब्रह्मण इत्याह-वाक्प्राणश्चक्षुः श्रोत्रमित्येते पादा इत्यध्यात्मम् । अथाधिदैवतमाकाशस्य ब्रह्मणोऽनिर्वायुरादित्यो दिश इत्येते । एवमुभयमेव चतुष्पाद्ब्रह्माऽऽदिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २॥ अध्यात्ममधिदैवतं च विहितस्योपासनस्याङ्गानुचिन्तनं दर्शयति--तदेतदिति । मन- सश्चतुष्पात्त्वं प्रश्नपूर्वकं व्युत्पादयति--कथमित्यादिना । आधिदैविकस्याऽऽकाशस्य चतुष्पात्त्वं प्रकटयति-अथेत्यादिना । मनआकाशयोक्तं चतुष्पात्वं निगमयति- एवमिति ॥ २॥ वागेव ब्रह्मणश्चतुर्थः पादः सोऽमिना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥ तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पाद इतरपादत्रयापेक्षया । वाचा १ क ख. ग. त्र. ट. 'दृष्टयस । २ क. 'त्तरं न । ३ ग. 'यत्वं ते ( ये ) ना। ४क, छ. अ. ण. रुक्तच ।