पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमैता-३तृतीयाध्याये- हि पादेनेव गवादि वक्तव्यविषयं प्रति तिष्ठति । अतो मनसः पाद इव वाक् । तथा प्राणो घाणः पादः । तेनापि गन्धविषयं प्रति चक्रामति । तथा चक्षुः पादः श्रोत्रं पाद इत्येवमध्यात्म चतुष्पात्त्वं मनसो ब्रह्मणः । अथापिदैवत- मग्निवाय्वादित्यदिश आकाशस्य ब्रह्मण उदर इव गोः पादा विलग्ना उपल- भ्यन्ते । तेन तस्याऽऽकाशस्याग्न्यादयः पादा उच्यन्ते । एवमुभयमध्यात्म चैवाधिदैवतं चतुष्पादादिष्टं भवति । तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पादः । सोऽग्निनाऽधिदैवतेन ज्योतिषा भाति च दीप्यते तपति च संतापं चोष्ण्यं करोति । अथवा तैलघृताद्याग्नेयाशनेनेद्धा वाग्भाति च तपति च वैदेनायोत्साहवती स्या- दित्यर्थः । विद्वत्फलं भाति च तपति च की| यशसा ब्रह्मवर्चसेन य एवं यथोक्तं वेद ।। ३ ॥ ___ आध्यात्मिकान्पादान्प्रपञ्चयति-तत्रेति । पादस्वं वाचो व्युत्पादयति-वाचा हीति । यथा गवादि गन्तव्यं पादेनैव प्रामोति देवदत्तोऽपि वाचैव पादेन वक्तव्यं विषयं प्रति- लभते । तेन तस्या युक्तं पादत्वमित्यर्थः । प्राणस्य वाच इव पादत्वं दर्शयति-तेनापीति । आधिदैविकान्पादान्विवृणोति-अथेति । यथा गोरुदरे पादा लग्ना लक्ष्यन्ते तथाऽऽका- शस्योदर इवाग्न्यादयो लग्ना दृश्यन्ते । तस्मात्तस्य ते पादा इव भवतीत्यर्थः । द्विविध- पादविवरणमुपसंहरति-एवमिति । संप्रत्याध्यात्मिकपादानामाधिदैविकपादैराधष्ठेयतया संबन्धोऽनुचिन्तनीय इति दर्शयितुमुपक्रमते-तत्रेति । सोऽग्निनेत्यादेरर्थान्तरमाह-- अथवेति । कीर्तियशसोः प्रत्यक्षत्वपरोक्षस्वाभ्यां भेदः ॥ ३ ॥ प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च की| यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥ चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥ ग. घ. ट. ठ. ड. देनैव । २ ख. ञ, ण. दिवक्त । क. ठ. दिवद्वक्त । ३ च. उ. क्तव्य वि । ४ ङ. ड. ढ. ति प्रतिति । ५ ड. उ. नाणं पा । ६ व. च. ढ. चङ्क- मिति । ७ ख. अ. ठ. °मतीति । ८ ड. मिर्यायुरादित्यो दि । ९ ख. अ. द. म चावि । २० ख. ड. च. आ. ह. "तं च च । ११ ख. च. अ. पं चोष्णं क°। १२ घ. वचना। १३ च. ठ. ड. द. °दनोत्सा । १४ ण. 'सेनेति य ।