पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९१ एकोनविंशः खण्डः १९] छान्दोग्योपनिषत् । श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिभिर्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥ इति तृतीयाध्यायस्याष्टादशः खण्डः ॥ १८॥ तथा प्राण एव ब्रह्मणश्चतुर्थः पादः । स वायुना गन्धाय भाति च तपत्ति च । तथा चक्षुरादित्येन रूपग्रहणाय श्रोत्रं दिग्भिः शब्दहणाय । विद्याफल समानं सर्वत्र ब्रह्मसंपत्तिरदृष्टं फलं य एवं वेद । द्विरुक्तिदर्शनसमाप्त्यर्थी ॥४॥ ५ ॥ ६ ॥ इति तृतीयाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ सर्वत्रेत्युभयतः संबध्यते ॥ ४ ॥ ५॥ ६ ॥ इति तृतीयाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ (अय तृतीयाध्यायस्यैकोनविंशः खण्डः।) आदित्यो ब्रह्मणः पाद उक्त इति तस्मिन्सकलब्रह्मदृष्टयमिदमारभ्यते- आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् । तत्सदासीत्तत्समभवत्तदाण्ड निरपर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्ड- कपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥ आदित्यो ब्रह्मेत्यादेश उपदेशस्तस्योपव्याख्यानं क्रियते स्तुत्यर्थम् । असदध्याकृप्तमामरूपमिदं जगदेशेषमग्रे प्रागवस्थायामुत्पत्तेरासीन्न स्वसदेव । कथमसतः सज्जायतेत्यसत्कार्यत्वस्य प्रतिषेधात् । नन्विहासदेवेति विधानाद्विव कल्प: स्यात् । न, क्रियास्विव वस्तुनि विकल्पामुपपत्तेः। कथं तहीदमसदे। चेति । नन्वबोचामान्याकृतनामरूपत्वादसदिवासदिति । नन्वेवशब्दोऽवधार. १कग. ट. धागना मा । २ ङ. च. द. को ।