पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ आनन्दगिरिकृतटीकासंवलित शांकरभाष्यसमेता- [३तृतीयाध्याये- णार्थः । सत्यमेवं, न तु सत्त्वाभावमवधारयति । किं तर्हि नामरूपव्याकृतवि पये सच्छब्दप्रयोगो दृष्टः। तच्च नामरूपव्याकरणमादित्यायत्तं प्रायशो जगतः। तदभावे ह्यन्धं तम इदं न प्रज्ञायेत किंचनेत्यतस्तत्स्तुतिपरे वाक्ये सदपीदं प्रागुत्पत्तेर्जगदसदेवेत्यादित्यं स्तौति ब्रह्मदृष्टयहत्वाय । आदित्यनिमित्तो हि लोके सदिति व्यवहारः । यथाऽसदेवेदं राज्ञः कुलं सर्वगुणसंपन्ने पूर्णवर्मणि राजन्यसतीति तद्वत् । न च सत्त्वमसत्त्वं वह जगतः प्रतिपिपादयिषितमादित्यो ब्रह्मेत्यादेशपरत्वात् । उपसंहरिष्यत्यन्त आदित्यं ब्रह्मेत्युपास्त इति । खण्डान्तरस्य संगतिमाह-आदित्य इति । तस्येत्यादित्यो गृह्यते । अनभिव्यक्त. नामरूपत्वाभिप्रायेणासच्छब्दो गौणो व्याख्यातस्तत्रैवकारावष्टम्भेन शङ्कते–नन्विति । कथमसतः सज्जायतेत्यसत्कारणत्वस्य षष्ठे निराकरिष्यमाणत्वात्तत्र सत्कारणं भवतु प्रकृते तु सावधारणादसच्छब्दादसदेव कारणं विवक्षितमित्युदितानुदितहोमवद्विकल्प इत्यर्थः । क्रियायाः कर्ततन्त्रत्वातदिच्छया तत्र विकल्पाद्वस्तुनस्तु सिद्धस्य तदिच्छाननुविधायित्वान्न विकल्पः संभवति । न हि स्थाणुरेव कस्यचिदपेक्षया पुरुषो भवतीति परिहरति--न क्रियास्विवेति । विकल्यासंभवे वाक्यस्य गतिर्वक्तव्येति पृच्छति-- कथमिति । असच्छब्दस्य वा गतिरवधारणस्य वा पृच्छयते तत्राऽऽद्यं प्रत्याह-नन्विति । द्वितीय शङ्कते--नन्वेवशब्द इति । तस्य का गतिरिति शेषः । पूर्वकालीनसत्त्वाभिधायकासी. च्छब्दस्य वाक्यशेषे श्रवणान्नोपक्रमे च(पि) सवाभावावधारणं विवक्षितं किंत्वभिव्यक्त्या भावावधारणमादित्यस्तुत्यर्थमिति समाधत्ते---सत्यमेवमिति । क पुनरियमादित्यस्तुति - रुपयुज्यते तत्राऽऽह--ब्रह्मदृष्टीति । जगतो नामरूपव्याकरणमादित्यायत्तमिति तदुप- पादयति-आदित्योति । तथाऽपि कथमादियस्तुतिरित्याशङ्कय दृष्टान्तेन दर्शयति- यथेति । किंचोपक्रमोपसंहारैकरूप्येणाऽऽदित्ये ब्रह्मदृष्टिविधिपरमिदं वाक्यं न तस्य कार- णासत्त्वे तात्पर्य कल्पयितुं शक्यमनन्यथासिद्धकल्पकाभावादिल्याह--नचति । तत्परत्वं कथमवगतमित्याशङ्कयोपसंहारस्योपक्रमानुसारिवादिल्याह-उपसंहरिष्यतीति । तत्सदासीत्तदसच्छब्दवाच्यं प्रागुत्पत्तेः स्विमितमनिस्पन्दमसदिव सत्कार्याभिमुखमीपदुपजातप्रवृत्ति सदासीत्ततो लब्धपरिस्पन्दं तत्समभ- बदल्पतरनामरूपव्याकरणेनाङ्गुरीभूतमिव बीजम् । ततोऽपि क्रमेण स्थूली- १च. ठ. ड. राजकु । २ क. च. ट. ट, ढ. द. त्वं चेह । ३ न. वे ज । ४ क. ख. न. ण. "तोऽपिल