पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनविंशः खण्डः १९] छान्दोग्योपनिषत् । भवत्तदद्भय आण्डं समवर्तत संवृत्तम् । आण्डमिति दैर्ध्य छान्दसम् । तदर्ड संवत्सरस्य कालस्य मसिद्धस्य मात्रां परिमाणमभिन्नस्वरूपमेवाशयत स्थित बभूव । तत्ततः संवत्सरपरिमाणात्कालादूर्व निरभिद्यत निर्भिन्नं वयसामि- चाण्डम् । तस्य निर्मिनस्याण्डस्य कपाले द्वे रजतं च सुवर्ण चांभवतां संवले ॥१॥ ___ कथं तस्यासच्छब्दवाच्यत्वं तदाह--स्तिमितमिति । सत्त्वं तर्हि कथमिति तदाह- कार्येति । बीजस्योच्छ्नतावत्कारणस्य सिसक्षावस्थां दर्शयति ईषदिति । लब्धपरि- स्पन्दं प्राप्तपरिणामं सद्भूतसूक्ष्माकारणाभवदित्यर्थः । सूक्ष्मभूतोत्पत्त्यनन्तरं स्थूलभूतोत्पत्ति- माह-ततोऽपीति । भृतसूक्ष्माकारप्राप्तेरनन्तरं पञ्चीकरणप्रक्रिययाऽन्योन्यावयवानुप्रवेशेन स्थूलभूतावस्थमासीदित्यर्थः । स्थूलेभ्यश्च भूतेभ्योऽण्डनिवृत्ति प्रतिजानीते-अद्भय इति । अप्सहिंतेभ्यो भूतेभ्य इत्यर्थः ॥ १॥ तबद्धजत सेयं पृथिवी यत्सुवर्ण सा दौर्यजरायु ते पर्वता यडल्वर समेघो नीहारो या धमन- यस्ता नयो यद्वास्तेयमुदक५ स समुद्रः ॥ २ ॥ तत्तयोः कपालयोर्यद्रजतं. कपालमासीत्सेयं पृथिवी - पृथिव्युपलक्षित. मधोऽण्डकपालमित्यर्थः । यत्सुवर्ण कपालं सा द्यौर्युलोकोपलक्षितमूर्य कपाल- मित्यर्थः । यजरायु गर्भपरिवेष्टनं स्थूलमण्डस्य द्विशकलीभावकाल आसीचे पर्वता बभूवुः । यदुवै गर्भपरिवेष्टनं तत्सह मेधैः समेघो नीहारोऽवश्यायो बभूवेत्यर्थः । या गर्भस्य जातस्य देहे धमनयः शिरास्ता नयो बभूवुः । न्यत्तस्य वस्तौ भवं वास्ते यमुदकं स समुद्रः ॥ २ ॥ अबश्यायशब्देन हिममुच्यते ॥ २॥ अर्थ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उल्लवोऽनूदतिष्ठन्त्सर्वाणि च भूनानि सर्वे च कामास्तस्मात्तस्पोदयं प्रति प्रत्यायनं पत्ति घोषा उलूलयोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥३॥ क्षेत्र का। १ क. अ.भवे २ क. ग. घ. ह. न, झ. र. 1. २५