पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३ तृ०ध्यायए० ख. १९] ... अथ यत्तदजायत गर्भरूपं तस्मिन्नण्डे सोऽसावादित्यस्तमादित्यं जायमानं घोषाः शब्दा उलूलव उरूरवो विस्तीर्णरवा उदतिष्ठन्नत्थितवन्त ईश्वरस्यवेह प्रथमपुत्रजन्मनि सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां कामाः काम्यन्त इति विषयाः स्त्रीवस्त्रान्नादयः । यस्मादादित्यजन्मनिमित्ता भूतकामोत्पत्तिस्तस्मादद्यत्वेऽपि तस्याऽऽदित्यस्योदयं प्रति प्रत्यायनं प्रत्यस्तग- मनं च प्रत्यथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्निमित्तीकृत्येत्यर्थः। सर्वाणि च भूतानि सर्वे च कामा घोषा उलूलवश्वानत्तिष्ठन्ति । प्रसिद्धं ह्येतदु- दादौ सवितुः ॥३॥ उललव इत्युत्सवकालीनाः शब्दविशेषा देशविशेषे प्रसिद्धाः । स्त्रीवस्त्रान्नादय उदतिष्ठ. निति पर्वेण संबन्धः । किमत्र प्रमाणमित्याशङ्कयाऽऽह-प्रसिद्धं हीति । एतदिति भूताद्युत्थानम् ॥ ३ ॥ स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽत्यांशो ह यदेन साधवो घोषा आ च गच्छेयुरुप च निळे- डेरन्निनेडेरन् ॥ ४ ॥ इति तृतीयाध्यायस्यैकोनविंशः खण्डः॥ १९ ॥ इति च्छान्दोग्योपनिषद्राह्मणे तृतीयोऽध्यायः समाप्तः ॥३॥ स यः कश्चिदेतमेवं यथोक्तमहिमानं विद्वान्सन्नादित्यं ब्रह्मेत्युपास्ते स तद्भाव प्रतिपद्यत इत्यर्थः । किंच दृष्टं फलमभ्याशः क्षिप्रं तद्विदो यादति क्रियाविशेषणमेनमेवंविदं साधवः शोभना घोषाः । साधुत्वं घोषादीनां यदुपभोगे पापानुवन्धाभावः । आ च गच्छेयुरागच्छेयुश्चोप च निभेडेरनुपनिमेडेरंश्च न केवलमागमनमात्रं . घोषाणामुपसुखयेयुश्चो. घ. च. ठ. 'मानमनुवो । २ ख. . “दद्यापि । ३ च. स्तम । ४ ठ. ऊ. ड. नं प्र । ५ घ. अ. द. पुनराग° । ६ ग. प. च. ट. 'यादौ स । ७ क. घ. °भ्यासो छ । ८ क. ङ. अ. उ. ढ. 'भ्यासः शि।