पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[च० ध्या० प्र० खण्डः १] छान्दोग्योपनिषत् । पसुखं च कुर्यरित्यर्थः । द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थ आदरार्थश्च ॥ ४ ॥ इति तृतीयाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥ इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजका.. __चार्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योप- . निषद्विवरणे तृतीयोऽध्यायः समाप्तः ॥३॥ अदृष्टफलमाहत्योक्त्वा दृष्टफलमाचष्टे-किंचेति । तद्विदो दृष्टफलमिति संबन्धः । क्रियाविशेषणमिति । एवंविदं साधवो घोषा आगच्छेयुरिति यत्तक्षिप्रमप्रतिबन्धेनैवे. त्यर्थः । आदित्ये ब्रह्मदृष्टिरादरस्य विषयः ॥ ४॥ इति तृतीयाध्यायस्यैकोनविंशः खण्डः ॥ १९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगव- दानन्दज्ञानकृतायां छान्दोग्यभाष्यटीकायां तृतीयोऽ- ध्यायः समाप्तः ॥ ३ ॥ (अथ चतुर्थाध्यायस्य प्रथमः खण्डः।) वायुप्राणयोब्रह्मणः पाददृष्टयध्यासः पुरस्ताद्वर्णितः । अथेदानीं तयोः साक्षाह्मत्वेनोपास्यत्वायोत्तरमारभ्यते । सुखावबोधार्थाऽऽख्यायिका विद्या- दानग्रहणविधिप्रदर्शनार्था च श्रद्धान्नदानानुद्धतत्वादीनां च विद्याप्राप्तिसाधनत्वं प्रदर्यत आख्यायिकया- ॐ। जानश्रुतिह पौत्रायणः श्रद्धादेयो बहुदायी बहपाक्य आस स ह सर्वत आवसथान्मापांचके सर्वत एव मेऽत्स्यन्तीति ॥ १॥ जानश्रुतिर्जनश्रुतस्यापत्यम् । है ऐतिह्यार्थः । पुत्रस्य पौत्रः पौत्रायणः स एव श्रद्धादेयः श्रद्धापुरःसरमेव ब्राह्मणादिभ्यो देयमस्येति श्रद्धादेयः । क. ख.. ट. °माहृत्यो । २ ख. ग. छ. ट. ण. दृष्टं फ° । ३ घ. च. 1. ड. ण, "ह इत्यति ।