पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १] छान्दोग्योपनिषत् । १९७ हंसरूपा भूत्वा राज्ञो दर्शनगोचरेऽतिपेतुः पतितवन्तः । तत्तस्मिन्काले तेषां पततां हंसानामेकः पृष्ठतः पतन्नग्रतः पतन्तं हंसमभ्युवादाभ्यक्तवान्हो होऽयीति भो भो इति संबोध्य भल्लाक्ष भल्लाक्षेत्यादरं दर्शयन्यथा पश्य पश्याऽऽश्चर्यमिति तद्वत् । भल्लाक्षेति मन्ददृष्टित्वं सूचयन्नाह । अथवा सम्यग्ब्रह्मदर्शनाभिमानव- वात्तस्यासकृदपालब्धस्तेन पीड्यमानोऽमर्षितया तत्सूचयति भल्लाक्षेति । जानश्रुतेः पौत्रायणस्य समं तुल्यं दिवा धुलोकेन ज्योतिः प्रभास्वरमन्नदाना- दिजनितप्रभावजमाततं व्याप्तं धुलोकस्पगित्यर्थः । दिवाऽह्ना वा समं ज्योति- रित्येतत् । तन्मा प्रसाक्षीः सञ्जनं सक्ति तेन ज्योतिषा संबन्धं मा कापारि- त्यर्थः । तत्मसञ्जनेन तज्ज्योतिस्त्वा त्वां मा प्रधाक्षीर्मा दहत्वित्यर्थः । पुरुषव्य- त्ययेन मा प्रधाक्षीदिति ॥ २॥ विशिष्टानदानफलं दर्शयितुमारभते-तत्रेति । वाक्याथ दर्शयति-ऋषय इति । संबोधनाभ्यासस्य विषयमाह-आदरं दर्शयन्निति । तदेव दृष्टान्तेन स्पष्टयति- यथेति । भल्लाक्षशब्दार्थमाह-भल्लेति । भल्लाक्षशब्दो भद्राक्षविषयः सीवरुद्धलक्षणया मन्ददृष्टित्वसूचकः । भल्लाक्षशब्दस्य विषयान्तरमाह-अथवेति । तस्य पृष्ठगामिनो हंसस्य महात्मा नातिक्रमणीयो विजानतेतिसम्यग्दर्शनाभिमानशालित्वात्तेनाग्रगामी हंसो जानश्रुतिमतिचिक्रमिपुरमर्पितया पीड्यमानः सन्न त्वं धर्म जानासि ज्ञानाभिमानं तु वहसी- युपालब्धस्तत्र भल्लाक्षेत्युपालम्भरवरूपं सृचयतीत्यर्थः । पृष्ठगामी हंसो निन्दापूर्वकमनगा- मिनं (ण) हंसं संबोध्य किमृचिवानित्यपेक्षायामाह-जानतेरिति । मा प्रधाक्षीरिति पाठे कथं मा प्रधाक्षीदित्युच्यते तत्राऽऽह-पुरुषव्यत्ययेनेति । मध्यमपुरुषं प्रथमपुरुष कृत्वा व्याख्यानमित्यर्थः ॥ २ ॥ तमु है परः प्रत्युवाच कम्बर एनमेतत्सन्न सयुग्वानमिव रैक्वमात्थेति यो नु कथ सयुम्वा रैक्व इति ॥ ३॥ तमेवमुक्तवन्तं पर इतरोऽग्रगामी प्रत्युवाचारे निकृष्टोऽयं राजा वराकस्त कमु एनं सन्तं केन माहात्म्येन युक्तं सन्तमिति कुत्सयत्येनमेवं सबहुमानमेतद्व- १ ख. ग. च. ञ ट. उ. ण. रे नि । २ ङ. च. ढ. ण. मं राज्ञो ज्यो' । ३ क. किमुक्तवा । ४ ग. ठ, २ऽतिनि ।