पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाप्यसमेता- [४चतुर्थाध्याये- चनमात्थ रैकमिव, सयुग्वानं सह *युग्वना गन्त्र्या वर्तत इति सयुग्वा रैकः । तमिवाऽऽत्थैनम् । अननुरूपमस्मिन्नयुक्तमीदृशं वक्तुं रैक इवेत्यभिप्रायः। इतरश्वाऽऽह । यो नु कथं त्वयोच्यते सयुग्वा रैक इत्युक्तवन्तं भल्लाक्ष आह शृणु यथा स रैकः ॥३॥ सन्तमेनं प्राणिमात्रं राजानमधिकृत्य सबहुमानमेतद्वचनमात्थेति कुत्सयतीति संबन्धः । तत्र वैधHदृष्टान्तमाह -कमिवेति । युगं वहतीति युग्यो बलीवर्दोऽश्वो वाऽस्यामस्तीति थुम्वा शकटी तया सह वर्तत इति सयुग्वा रैकः । + वकारो मत्वर्थीयः । त्वं रैक ज्ञानमाहात्म्ययुक्तमधिकृत्य यथा प्रशंसावचनं तथा कर्मिणमेवं राजानमधिकृत्य कथमेव. मात्थेत्यर्थः । उक्तं वाक्याथ संकलयति-अननुरूपमिति । अस्मिन्वराके राजनि धर्ममात्रनिष्ठे नेदमनुरूपं वचनं रैके पुनर्विज्ञानवति यथोक्तं वचो युक्तमेवेति । इतरः पृष्ठगामी हंसः । यः सयुग्वा रैकत्वयोच्यते स कथं नु स्यादित्यन्वयः ॥ ३ ॥ यथा कृतायविजितायाधरेयाः संयन्त्येवमेन सर्व तदर्भिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४ ॥ यथा लोके कृतायः कृतो नामायो द्यूतसमये प्रसिद्धश्चतुरङ्कः स यदा जयति छूते प्रवृत्तानां तस्मै विजिताय तदर्थमितरे त्रिद्वयेकाका अधरेया- स्वेताद्वापरकलिनामानः संयन्ति संगच्छन्तेऽन्तर्भवन्ति । चतुरङ्के कृताये त्रिद्वचेकाङ्कगनां विद्यमानत्वात्तदन्तर्भवन्तीत्यर्थः । यथाऽयं दृष्टान्त एव- मेनं कं कृतायस्थानीयं त्रेतांद्यायस्थानीयं सर्वं तदभिसँमैत्यन्तर्भवति रैके । किं तद्यत्किंच लोके सर्वाः प्रजाः साधु शोभनं धर्मजातं कुर्वन्ति तत्सर्व रैकस्य धर्मेऽन्तर्भवति । तस्य च फले सर्वप्राणिधर्मफलमन्तर्भव- तीत्यर्थः । तथाऽन्योऽपि कश्चिद्यस्तद्वेद्यं वेद । किं तद्यद्वयं स रैको वेद ।

  • यद्यपि सर्वपुस्तकेषु युग्यथेति पाठो दृश्यते तथाऽपि वकारो मत्वर्थीय इति टीकानु-

सारेण सयुग्वानमिति मूलानुसारेण च प्रामादिक एवेति प्रतिभाति । अब बनोरचेतिसूत्रेण डीबयो- रभावस्तु च्छान्दसः । अयस्मयादीनि च्छन्दसीति भसंज्ञायां यस्योत चेत्यल्लोपे यलोपः । + वका- रपदेन वकारवटितो वनिरक्ष्यते। १ च.. यः । तमित । २ क. ख. ग. छ. अ. ट. ण. युग्या । अयं पाठः प्रामा- दिकः । ३ छ. ण. संकल्पयति । ४ क. म. ब. स. ठ. °समेति । ५ क. 'तादिस्था । ख. . म. ताद्वापरादिस्था । घ. ताययस्था ! ६ क. घ. च. ट. °समेत्य ।