पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये- तद् ह तदेतदीदृशं हंसवाक्यमात्मनः कुत्सारूपमन्यस्य विदुषो रैकादेः मशंसारूपमुपशुश्राव श्रुतवान्हम्यतलस्थो राजा जानश्रुतिः पौत्रायणः । तच्च हंसवाक्यं स्मरन्नेव पौनःपुन्येन रात्रिशेषमतिबाहयामास । ततः स बन्दि भी राजा स्तुतियुक्ताभिर्वाग्भिः प्रतिबोध्यमान उवाच क्षत्तारं संजिहान एव शयन निद्रां वा परित्यजन्नेब हेऽङ्ग वत्सारे ह सयुग्वानमिव रैकमात्थ किं माम् । स एव स्तुत्यों नाहमित्यभिप्रायः । अथवा सयुग्वानं रैकमात्थ गत्वा मम तदिदृक्षा, तदेवशब्दोऽवधारणार्थोऽनर्थको वा वाच्यः । स च क्षचा प्रत्युवाच रैकानयनकामो राज्ञोऽभिप्रायज्ञो यो नु कथं सयुग्वा रैक इति, राज्ञैवं चोक्त आनेतुं नचिह्न ज्ञातुमिच्छन्यो नु कथं सयुग्वा रैक इत्यवोचत् । स च भल्लाक्ष- वचनमेवावोचत् ।। ५। ६॥ प्रतिपन्नहंसवचनखेदित इतरो राजा रात्रिशेषमतिबाह्य शयनं जहदात्मनः समीपस्थं स्तुतिकर्तारं क्षत्तारमङ्गारे हेत्या दिवाक्यमुक्तवान् । तस्याभिप्रायमाह-स एवेति । कथ- मिवशब्दो द्वितीये घटते तत्राऽऽह -तदेति । अवधारणस्यापि नोपयोगोऽस्तीति चेत्त- त्राऽऽह-अनर्थको वेति । प्रश्चवाक्यं व्याचष्टे-राज्ञेति । यो नु कथमित्यादि पर्व- चद्वयाख्येयम् ॥ ५ ॥ ६ ॥ स ह क्षत्ताऽन्विष्य नाविदमिति प्रत्येयाय त५ होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमछति ॥ ७ ॥ तस्य स्मरन्स ह क्षत्ता नगरं ग्रामं वो गत्वाऽन्विष्य रैकं नाविदं न व्यज्ञा- सिषमिति प्रत्येयाय प्रत्यागतवान् । तं होवाच क्षचारमरे यत्र ब्राह्मणस्य ब्रह्मविद एकान्तेऽण्ये नदीपुलिनादौ विविक्ते देशेऽन्वेषणाऽनुमार्गणं भवति तत्तत्रैन रैकमर्छ ऋच्छ गच्छ तत्र मार्गगं कुर्वित्यर्थः ॥ ७ ॥ तस्येति कर्मणि षष्टी ॥७॥ सोऽधस्ताच्छकटस्य पामानं कंषमाणमुपोपविवेश तर हायुवाद त्वं नु अगवः सयुग्वा रैक इत्यह ह्यरा ३ इति ह प्रतिजज्ञे स ह क्षचाविदमिति प्रत्येयाय ॥८॥ ॐ इति चतुर्थाध्यायस्य प्रथमः खण्डः ॥ १ ॥ १ . च । २ ख. ञ. रण्यन । ३ ख. प. च. न. प. चिक्तदें। ४ क. ख. च. अ.ईग। ५ ख. अ. कर्षमा ।