पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः २ ] छान्दोग्योपनिषत् । इत्युक्तः सत्ताऽन्विष्य तं विजने देशेऽधस्ताच्छ कटस्य गळ्याः पामानं खर्जू केषमाणं कण्डूयमानं दृष्टाऽयं नूनं सयुग्वा रैक इत्युप समीप उपविवेश विन- येनोपविष्टवान् । तं च रैकं हा युवादोक्तवान् । त्वमसि हे भगवो भगवन्सयुग्वा रेक इति । एवं पृष्टोऽहमस्मि ह्यरा ३ अर इति हानादर एवं प्रतिजज्ञेऽभ्यु- पगतवान् । स तं विज्ञायाविदं विज्ञातवानस्मीति प्रत्येयाय प्रत्यागत इत्यर्थः ।। ८॥ इति चतुर्थाध्यायस्य प्रथमः खण्डः ॥१॥ मया हि गार्हस्थ्यं चिकीयते तदर्थं च धनमयते न चायं तादर्थेन किंचिदुपकर्तुमि- त्याशयेनानादरं विज्ञातवानस्मि यदुक्तलक्षणं रैकं तस्य च गार्हस्थ्याभिप्रायं धनार्थित्वं चेति शेषः ॥ ८ ॥ इति चतुर्थाध्यायस्य प्रथमः खण्डः ॥ १ ॥ ( अथ चतुर्थाध्यायस्य द्वितीयः खण्डः ) तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे त हान्यु- वाद ॥ १ ॥ तत्तत्र ऋषर्गार्हस्थ्यं प्रत्यभिप्रायं बुद्ध्वा धनार्थितां चो है, एव जानश्रुतिः पौत्रायणः शट तानि गवां निष्क कैण्ठहारमश्वतररथमश्वतरीभ्यां युक्तं रथं तदादाय धनं गृहीत्वा प्रतिचक्रमे रैकं प्रति गतवान् । तं च गत्वाऽभ्युवाद हाभ्युक्तवान् ॥१॥ क्षत्तवचने श्रुते सतीति सप्तम्यर्थः । धनार्थितां च बुद्धेति पूर्वेण संबन्धः । उहश. ब्दस्य पूर्ववदत्राप्येव कारोऽर्थः ॥ १ ॥ रैक्वमानि षट्शतानि गवामयं निष्कोऽयमश्वतरी- रथो न म एतां भगवो देवता शाधि यां देवता- मुपास्म इति ॥२॥ १ क. ग. व. ङ. घ. ट. ठ. ड. ढ. नंक' । अ. नं खर्जु क । २ क. ख. ण. कर्षमा । ३. ड. 'यंस नू । ४ क. ग. प. ड. च. अ. ठ. ड. है. ण. इति समीप उपो. पवि । ५ ख. ग. ङ. .ट. कण्उचहा। ब. ङ. ह. कण्ठचं हा । ६.न् । स तं । ' २६