पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

द्वितीयः खण्डः २ छान्दोग्योपनिषत् । २०३ जानश्रुतेः सति क्षत्रियत्वे शदसंबोधनमयोग्यमित्युपसंहरति-कथमिति । न जातिशूद्रो जानश्रुतिः किंतु क्षत्रियोऽस्मिन्गौणः शूद्रशब्द इत्येकीयमतोपन्यासेन परिहरति-तत्रेति । तेन शुगाविष्टत्वेनासौ जानश्रुतिः शुचा हेतुना रैकमाद्रवतीति शूद्रः श्रुत्वा वा हंसवाक्यं रैकमाद्रवतीति नैमित्तिकं तत्र शूद्रपदमित्यर्थः । तथाऽपि किमिति शूद्रपदेन राजानमृषिः संबोधयतीत्याशङ्कयाऽऽह- ऋपिरिति । उक्तप्रकारद्वयसमाप्तावितिशब्दः । प्रकारान्तरेण जानश्रुतेः शूद्रत्वं गौणं व्युत्पादयति-शूद्रवद्वेति । न च शुश्रूषया तेन शूद्र इति शेषः । मुख्यं शूद्रत्वं क्षत्तसंबन्धेन व्यावर्तयति-न विति । क्षत्रिये जानश्रुतौ शूद्रशब्दप्रवृत्ती निमित्तान्तरमाह-अपरे पुनरिति । तत्र गमकं दर्शयति-लिङ्गं चेति । यदृर्भतम• धिकधनार्थित्वमिति यावत् । अधिकं षट्शतेभ्यः सकाशादिति शेषः ।। ३ ॥ त हायुवाद रैक्वेद सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायाऽयं ग्रामो यस्मिन्नास्सेऽन्येव मा भगवः शापीति ॥ ४ ॥ तस्याह मुखमुपोद्गृह्णन्नुवाचाऽऽजहारेमाः शूद्रानेनैव मुखेनाऽऽलापयिष्यथा इति ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास तस्मै होवाच ॥ ५॥ इति चतुर्थाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ रैकेदं गवां सहस्रमयं निष्कोऽयमश्वतरीरथ इयं जायार्थ मम दुहिताऽऽनी. ताऽयं च ग्रामो यस्मिन्नास्से तिष्ठसि स च त्वदर्थे मया कल्पितः । तदेतत्सर्वमादायानुशाध्येव मा मां हे भगव इत्युक्तस्तस्या जायार्थमानीताया राज्ञो दुहितुहेब मुखं द्वारं विद्याया दाने तीर्थमुपोद्गृह्न जानन्नित्यर्थः । " ब्रह्मचारी धनदाची मेधावी श्रोत्रियः प्रियः। विद्यया वा विद्यां माह तानि तीथोनि षण्मम॥ १ छ. न शु' । २ क. ग. ट. क्षत्र: । ३ क. स स त । ४ व. च. उ. ड. ण. मुखमिव मुखं । ५ ख. घ. उ. . प्रहैता ।