पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२०४ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये इति विद्याया वचनं विज्ञायते हि । एवं जानन्नुरोद्गृह्णन्नुवाचोक्तवान् । आजहाराऽऽहृतवान्भवान्यदिमा गा यच्चान्यद्धनं तत्साध्विति वाक्यशेषः । शूद्रेति पूर्वोक्तानुकृतिमात्रं न तु कारणान्तरापेक्षया पूर्ववत् । अनेनैव मुखेन विद्याग्रहणतीर्थेनाऽऽलापयिष्यथा आलापयसीति मां भाणयसीत्यर्थः । ते हैते ग्रामा रैकपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषूवासोषितवात्रैकस्तानसौ प्रामानंदादस्मै रैकाय राजा । तस्मै राज्ञे धनं दत्तवते ह किलोवाच विद्यां स रैकः ॥ ४ ॥५॥ इति चतुर्थाध्यायस्य द्वितीयः खण्डः ॥ २॥ विद्यादाने तस्या द्वारत्वं तदातुश्च वरज्ञानदानतीर्थतां जाननुवाचेति संबन्धः । धनदातुर्विद्यादानतीर्थत्वे प्रमाणमाह-ब्रह्मचारीति । तस्या द्वारतां विद्यादाने तदातुस्तीर्थतां च जाननुवाचेत्युक्तमनुवदति-एवं जाननिति । किमुक्तमित्यपेक्षायामाह-आजहारेति । तत्र वैधHदृष्टान्तमाह-पूर्ववदिति । अल्पवनहरणानिच्छायां. कारणापेक्षाय शूद्रेति संबोधनवदित्यर्थः । रैकेण प्रामादिकं गृहीत्वा विद्या जानश्रुतये दत्तेन्यस्मा प्रति श्रुतिर्ज्ञापयति-ते हैत इति । महावृषेषु महापुण्येष्विति यावत् ॥ ४ ॥ ५ ॥ इति चतुर्थाध्यायस्य द्वितीयः खण्डः ॥ २॥ ( अथ चतुर्थाध्यायस्य तृतीयः खण्डः।) वायुवि संवर्गों यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्योत यदा चन्द्रोऽस्तमेति वायुभेवाप्येति ॥ १ ॥ वायुवा संवर्गो वायुबाह्यो वावेत्यवधारणार्थः । संवर्गः संवर्जना. न्सग्रहणासंग्रसनाद्वा संवर्गः । वक्ष्यमाणा अग्न्याद्या देवता आत्मभाचमापादयतीत्यतः संवर्ग: । संवर्जनाख्यो गुणो ध्येयो वायुवत् । कृतायान्तर्भावदृष्टान्तात । कथं संवर्गवं वायोरित्याह । यदा यस्मिन्काले वा अग्निरुद्वायत्युद्वासनं प्राप्नोत्युपशाम्यति तदाऽसावग्निवायुमेवाप्यति १ क. °ते । ए° । २ ख. ग. त्र. ग. भगवा । ३ क. भाषय । ४ च. °मान्ददा. वस्मै । ५ ख. घ अ. ठ. ण. 'नदा । ६ ऋ. 'दासयौं । ७ क. ख. घ. च. ठ. ण. युर्बाह्यो ! ८ अ. दासयौं ।