पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

तृतीयः खण्डः ३] छान्दोग्योपनिषत् । २०५ वायुस्वाभाव्यमपिगच्छति । तथा यदा सूर्योऽस्तमेति वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति वायुमेवाप्योति । ननु कथं सूर्याचन्द्रमसोः स्वरूपावस्थितयोायावपिगमनम् । नैष दोषः । अस्तमनेऽदर्शनप्राप्तेर्वा युनिमित्तत्वात् । वायुना ह्यस्तं नीयते सूर्यः । चलनस्य वायुकार्यत्वात् । अथवा प्रैलये सूर्याचन्द्रमसोः स्वरूपभ्रंशे तेजोरूपयोायावेवापिगमनं स्यात् ॥ १ ॥ कथं विद्यामुक्तवानित्याशङ्कया विदैवतं तदुक्तिप्रकारं दर्शयति–वायुरित्यादिना । प्राणो वाव संवर्ग इति वक्ष्यमाणेनापुनरुक्ततायै वायुं व्याचष्टे-वायुर्बाह्य इति । संवर्जनादित्यस्य व्याख्या संग्रहणादिति । संग्रहणपक्षं समर्थयते वक्ष्यमाणा इति । किमिति संवर्गत्वं वायोरुपदिश्यते तत्र दृष्टान्तश्रुति प्रमाणयति-कृतायेति । संग्रसनादेत्युक्तं पक्षमाकाङ्क्षापूर्वकं व्युत्पादयति-कथमित्यादिना । सूर्याचन्द्रमसोर्वायावपिगमनमाक्षिपति-नन्विति । आप्रलयात्तयोरधिकारपदे स्थित्यङ्गीकारात्स्वरूपावस्थितत्वं द्रष्टव्यम् । सूर्यादेः स्वरूपावस्थानेऽपि वायावप्ययः संभवतीति समाधत्ते-नैष दोष इति । अस्तमने सति सूर्यादेरदर्शनप्राप्तेर्वावधीनत्वं व्युत्पादयति-वायना हीति । सूर्यग्रहणं चन्द्रमसोऽप्युपलक्षणम् । गौणस्तर्हि वायावप्ययः सूर्यादरित्याशय पक्षान्तरमाह-अथवेति । संगतिसमये हि संहरति वेत्यर्थः ॥१॥ यदाऽऽप उच्छुष्यन्ति वायुमेवापियन्ति वायुवेता न्सर्वान्संवृक्त इत्यधिदैवतम् ॥ २ ॥ तथा यदाऽऽप उच्छुष्यन्त्युच्छोषमाप्नुवन्ति तदा वायुमेवापियन्ति । वायुर्हि यस्मादेवैतानन्यांद्यान्महाबलान्संवत । अतो वायुः संवर्गगुण उपास्य इत्यर्थः । इत्यधिदैवतं देवतासु संवर्गदर्शनमुक्तम् ॥ २ ॥ अथाध्यात्म प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राण५ श्रोत्रं प्राणं मनः प्राणो ह्येवैतान्सर्वान्संवृक्त इति ॥ ३॥ अथानन्तरमध्यात्ममात्मनि संवर्गदर्शनमिदमुच्यते । प्राणो मुख्यो १ ख. अ. ण. 'युस्वभावमधिग । २ ग. घ. च. छ. ट, ण. सूर्यश्चन्द्रश्च । ङ. ठ. ड. ढ. सूर्यश्च चन्द्रश्च । च । ३ ख. ञ. प्रलयकाले । ४ क. ख. ण. 'युर्वाह्य । ५ ख. छ, ञ. ण. वाय्वप्य । ६ ख. न. ण. ग्न्यादीन्म ।