पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२०६ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[ ४ चतुर्थाध्याये-- वाव संवर्गः । स पुरुषो यदा यस्मिन्काले स्वपिति प्राणमेव वागप्येति वायुमि. वाग्निः प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो हि यस्मादेवैतान्वागादीन्सयाँन्सवक्त इति ॥ ३॥ कथं प्राणस्य संवर्गत्वमित्याशङ्कयाऽऽह–स पुरुष इति । तस्मात्संवर्ग इत्यध्या. स्ममिति शेषः ॥ ३ ॥ तौ वा एतौ द्वौ संवर्गों वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥ तौ वा एतौ द्वौ संवर्गों संवर्जनगुणौ वायुरेव देवेषु संवर्गः प्राणः प्राणेषु वागादिषु मुख्यः ॥ ४ ॥ वायुप्राणावधिदैवताध्यात्मभेदेन संवर्गगुणावुक्तावुपसंहरति-ताविति ॥ ४ ॥ - अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्ष सेनि परिविष्यमाणो ब्रह्मचारी बितिक्षे तस्मा उ ह , न ददतुः ॥ ५ ॥ अर्थतयोः स्तुत्यर्थमियमाख्यायिकाऽऽरभ्यते । हेत्यतिह्यार्थः । शौनकं च शुनकस्यापत्यं शौनकं कापेयं कपिगोत्रमभिप्रतारिणं च नामतः कक्ष. सेनस्यापत्यं काक्षसेनि भोजनायोपविष्टौ परिविष्यमाणौ सूपकारैर्ब्रह्मचारी ब्रह्मविच्छौण्डो विभिक्षे मिक्षितवान् । ब्रह्मचारिणो ब्रह्मविन्मानितां बुद्ध्वा तं जिज्ञासमानौ तस्मा उँ भिक्षा न ददतुर्न दत्तवन्तौ ह किमयं वक्ष्यतीति ॥ ५॥ अथ हेत्याद्यनन्तरवाक्यं व्याचष्टे-अथैतयोरिति । ब्रह्मविच्छौण्डो ब्रह्मविदां मध्ये शरमात्मानं मन्यमान इति यावत् । बुद्ध्वा लिङ्गविशेषेणेति शेषः । जिज्ञासमानावित्युक्तमेव व्यनक्ति-किमयमिति ॥ ५ ॥ स होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मा अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न दत्तमिति ॥६॥ ख. व. च. अ. द. ढ. ण. धमा। २ ख. अ. नार्थे प°। ३ ड. ड. ढ. द्ध्वा जि४ क. ग. ट. तं विजि° । क. व. ग. ब. च. स. ट. ठ. ण. उ ह भि'। ६ ग. ट. 'पः । तं जि!