पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः ३] छान्दोग्योपनिषत् । २०७ स होवाच ब्रह्मचारी महात्मनश्चतुर इति द्वितीयाबहुवचनम् । देव एकोऽ. सन्यादीन्वायुर्वागादीन्प्राणः । कः स प्रजापतिर्जगार ग्रसितवान् । कः स जगा- रेति प्रश्नमेके । भुवनस्य भवन्त्यस्मिन्भूतानीति भुवनं भूरादिः संवों लोकस्तस्य गोपा गोपायिता रक्षिता गोप्तेत्यर्थः । तं के प्रजापतिं हे कापेय नाभिपश्यन्ति न जानन्ति मा मरणधर्माणोऽविवेकिनो वा हेऽभिप्रतारिन्बहुधाऽध्यात्माधि- दैवताधिभूतप्रकारैर्वसन्तम् । यस्मै वा एतदहन्यहन्यन्नमदनायाऽऽह्रियते संस्क्रियते च तस्मै प्रजापतय एतदन्नं न दत्तमिति ॥ ६॥ चतुर इति द्वितीयाबहुवचनदर्शनान्महात्मन इति ताहगेवेत्यःह-द्वितीयति । यद्वा महात्मन इत्यस्य पञ्चम्यादौ चतुर इत्यस्य च समीचीने प्रयोगदर्शनादिह तथा मा भूदिति मत्वाऽऽह – महात्मन इति । अतो हि जगारेति संबन्धः । कः शब्दः प्रजापति- विषयो व्याख्यातः संप्रति पक्षान्तरमाह--कः स इति । यस्ताञ्जगार स कः स्यादिति प्रश्नमेके वदन्तीत्यर्थः । अत्तारं प्राणमामानं चैकवेन पश्यन्ब्रह्मचारी मह्यं भिक्षां यन्न दद- तुर्भवन्तौ तत्तस्मै देवाथैव न ददतु रित्यज्ञत्वमेव तयोर्दर्शयन्नाह-यस्मा इति ॥ ६॥ तदु ह शौनकः कांपेयः प्रतिमन्वानः प्रत्येया- याऽऽत्मा देवानां जनिता प्रजाना५ हिरण्यदष्ट्रो बासेोऽनसूरिहान्तमस्य महिमा नमाहुरनद्यमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्ता- स्मै भिक्षामिति ॥ ७ ॥ तदु ह ब्रह्मचारिणो वचनं शौनकः कापेयः प्रतिमन्वानो मनसाऽऽलोचय- ब्रह्मचारिणं प्रत्येयायाऽऽजगाम । गत्वा चाऽऽह यं त्वमवोचो न पश्यन्ति मया इति तं वयं पश्यामः । कथम् । आत्मा सर्वस्य स्थावरजङ्गमस्य । किंच देवानामग्न्यादीनामात्मनि संहृत्य ग्रसित्त्वा पुनर्जनितोत्पादयिता वायुरूपेणाधि- देवनमग्न्यादीनाम् । अध्या मं च प्राणरूपेण वागादीनां प्रजानां च जनिता । अथ वाऽऽत्मा देवानामग्निवागादीनां जनिता प्रजानां स्थावरजङ्गमानाम् । १ढ. ण. सर्वलो । २ ध. ङ. ठ. ड. जानने । ३ ङ. ढ. ण. देवाधि । ४ क. त्याऽऽह । ५ ख. घ. त्र. 8. ण. 'त्मा स स । ६ ण, रस्य ज । ७ ण, स्य च । किं । ८ख.व.ड. च..ढ. जनायता।