पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये- हिरण्यदंष्ट्रोऽमृतदंष्ट्रोऽभग्नदंष्ट्र इति यावत् । वभसो भक्षणशीलः । अनसूरिः सूरिर्मेधावी न सूरिरसूरिस्तत्प्रतिषेधोऽनसूरिः सूरिरेवेत्यर्थः । महान्तमतिप्रमा णमप्रमेयमस्य प्रजापतेमहिमानं विभूतिमाहुब्रह्मविदः । यस्मात्स्वयमन्यैरनद्यमा. नोऽभक्ष्यमाणो यदनन्नमनिवागादिदेवतारूपमत्ति भक्षयतीति । वा इति निर- थकः । वयं हे ब्रह्मचारिन् , आ, इदमेवं यथोक्तलक्षणं ब्रावयमा उपास्महे । वयमिति व्यवहितेन संबन्धः । अन्ये न वयमिदमुपास्महे । किं तर्हि परमेव ब्रह्मोपास्मह इति वर्णयन्ति । दत्तास्मै भिक्षामित्यवोचद्धृत्यान् ॥ ७ ॥ दर्शनमेव प्रश्नद्वारा विशदयति-कथमित्यादिना । आधिदैवतमग्न्यादीनां वायु. रूपेण जनितेति संबन्धः । तस्याः प्राथमिकं कृत्वा दर्शयति-आत्मनीति । अग्न्या- दीन्प्रलयकाले देवः स्वात्मनि वायुरूपेण ग्रसित्वा पुनरुत्पत्यवस्थायामुत्पादयितेति योजना । अध्यात्म वागादीनपि स्वापावस्थायां स्वात्मनि प्राणरूपे संहृत्य पुनः प्रबोधावस्थायां तेषा. मुत्पादयिता देवः प्राणरूपेणेत्याह-अध्यात्म चेति । देवानामान्यादीनां प्रजानां वागादीनां च जनितेत्युक्तं संप्रति व्याख्यान्तरमाह-अथ वेति । अभग्नदंष्ट्रः सर्वसंह. तुरपि न काचन ग्लानिर्भवतीत्यर्थः । प्रजापतेर्महिम्नोऽतिप्रमाणत्वं प्रकटयति-यस्मा. दिति । इतिशब्दात्परस्ताद्यच्छब्दस्य संबन्धः । तदर्थश्च यस्मादित्युक्तस्तस्मात्प्रजापतेर्महि . मानमतिप्रमाणमाहुरिति पूर्वेण संवन्धः । वै वयमित्यादिभागं पदच्छेदपूर्वकमादाय व्याचष्टे- वयमित्यादिना । क्रियापदेन वयमित्यस्य संबन्धमुक्तमुपपादयति-वयमितीति । ब्रह्मचा- रिन्निदं वयमा समन्तादुपास्महे ब्रह्मेत्युक्त्वा प्रकारान्तरेण पदच्छेदपूर्वकं व्याख्यानान्तर- माह-अन्ये नेति । शौनकस्याभिप्रतारिणश्च ज्ञानातिशयं दर्शयित्वा यतिश्च ब्रह्मचारी चेत्यादिस्मृतिमनुसृत्याऽऽह-दत्तेति ॥ ७ ॥ तस्मा उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृत सैषा विराडनादी तयेद५ सर्वं दृष्ट५ सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ८ ॥ इति चतुर्थाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ १ क. पेडन । २ ख. अ.र्थकम् । व । ३ क. ल्यान्त ।