पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः ३] छान्दोग्योपनिषत् । २०९ तस्मा उ ह ददस्ते हि भिक्षाम् । ते वै ये. ग्रस्यन्तेऽग्न्यादयो यश्च तेषां ग्रसिता वायुः पञ्चान्ये वागादिभ्यः, तथाऽन्ये तेभ्यः पञ्चाध्यात्म वागादयः प्राणश्च, ते सर्वे दश भवन्ति संख्यया, दश सन्तस्तत्कृतं भवति ते, चतुरङ्क एकाय एवं चत्वारस्यङ्काय एवं त्रयोऽपरे द्वयङ्काय एवं दावन्यावेकाङ्काय एवमेकोऽन्य इत्येवं दश सन्तस्तत्कृतं भवति । यत एवं तस्मात्सर्वासु दिक्षु दशस्वप्यग्न्याद्या वागाद्याश्च दशसंख्यासामान्यादन्नमेव दशाक्षरा विरोड् विराडन्नामति हि श्रुतिः । अतोऽन्नमेव दशसंख्यत्वात् । तत एव दश कृतं कृतेऽन्तर्भावाचतुरायत्वेनेत्यवोचाम। - आख्यायिकाद्वारा प्रकृतायां संवर्गविद्यायामात्मा देवानामित्यादि गुणजातमुपदिश्य गुणान्तरमुपदेष्टुमनन्तरवाक्यमवतारयति-ते वा इति । तद्वयाचष्टे—ये ग्रस्यन्त इति । त एते वागादिभ्यः सकाशादन्ये पञ्चेति संबन्धः । अधिदैवतमग्न्यादीन्वायुसहितान्पञ्चो- क्वा तेनैव प्रकारेणाध्यात्ममपि तेभ्यः सकासादन्ये प्राणसहिता वागादयः पञ्च सन्तीत्याह- तथेति । अवान्तरसंख्याविनिवेशमुक्त्वा तत्रैव महासंख्यानिवेशं दर्शयति-ते सर्व. इति । दशसंख्यासंबन्धात्तेषां संख्ययेति कृतायोपलक्षितं द्यूतं कृतभित्युच्यते । तत्र दशसंख्याव- स्वस्य वक्तव्यत्वादिति द्रष्टव्यम् । यदुक्तमग्न्यादयो वागादयश्च दश सन्तस्तत्कृतं भवतीति तदुपपादयति-चतुरङ्क इत्यादिना । एकस्तादयो द्यूते चतुरको दृश्यते तद्वदग्न्यादयो वागादयश्च प्रस्यमानाश्चत्वारों भवन्ति । यथा च द्यूते त्रेतानार्मकोऽयस्यको गृह्यते तथाऽग्न्या. दयो वागादयश्चैकैकन्यनास्त्रयः । तथा च तत्र द्वापरनामायो द्वयको जायते तद्वद्वागादिष्व- गन्यादिषु च द्वौ द्वौ वर्जयित्वा द्वौ द्वौ भवतः । तथा च तत्र कलिसंज्ञायो भवत्येकाको योऽग्न्यादीनां प्रसिता वायुर्वागादीनां ग्रसिता प्राणश्चैकस्तेभ्यो ग्रस्यमानेभ्योऽन्य इत्येवं ग्रसितृत्वेन ग्रस्यमानत्वेन च दश सन्तस्ते पूर्वोक्तं कृतं भवतीत्यर्थः । द्यूतस्य सर्वान्नात्तत्व- प्रसिद्ध्या दशसंख्यावतां देवानां कृतत्वसंपादनेनात्तत्वं संपादितम् । इदानी दशसंख्याव- वेनैव विराट्त्वसंपादनेन तेषामन्न-वं संपादयति-यत इति । अग्न्यादिषु वागादिषु च मिलितेषु दशसंख्यावत्त्वेऽपि कथमनेन तद्वत्त्वं तथा च कथं संख्यासामान्यं तेषामन्नसं- ख्यासामान्यसंपादनभित्याशङ्कयाऽऽह-दशाक्षरेति । विराड्दशसंख्यावती प्रसिद्धा सा चान्नमिति श्रूयते, तथा च यथोक्तेष्वग्न्यादिषु वागादिषु च समुदितेषु संख्यासामान्या. द्विराट्त्वं संपाद्यानत्वसंपादनं सुशकमित्याह-अत इति । तेषु कृतत्वेनान्न(त्त)वं १ ख. ग. ङ. च. ञ. ठ. ढ. ण. एक आय । २ ख. . °सहिति । चिरा । ३ ङ. ति श्रु । ४ क. ञ. ड. संख्यात्वात् । ५ च. ठ. कृतान्त' । ६ क. ग. ट. 'च्च चतु। ७ ख. छ. ग. °वदायो । ८ ण. मकाम । ९ ख, च. संज्ञोऽयो । १. क. छ. . चवा ।