पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२१० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४चतुर्थाध्याये-- संपादितमुपसंहरति-तत एवेति । धृतस्यायचतुष्टयविशिष्टत्वेन कृतोपलक्षितेन तत्र दशसंख्यायाः सत्त्वात्तत एव संख्यासामान्यादान्यादयश्च कृतं भवति ततश्च तेषामत्तवमित्युक्त मित्यर्थः। सैषा विराड्दशसंख्या सत्यन्नं चान्नाद्यन्नादिनी च कृतत्वेन । कृते हि दशसंख्याऽन्तर्भूताऽतोऽनमन्नादिनी च सा । तथा विद्वान्दशदेवतात्मभृतः सविराट्वेन दशसंख्ययाऽन्नं कृतसंख्ययाऽन्नादी तयाऽन्नानादिन्येदं सर्वं जगदशदिक्संस्थं दृष्टं कृतसंख्याभूतयोपलब्धम् । एवंविदोऽस्य सर्व कृतसंख्याभू. तस्य दशदिसंबद्धं दृष्टमुपलब्धं भवति । किंचान्नादश्च भवति य एवं वेद यथोक्तदर्शी। द्विरभ्यास उपासनसमाप्त्यर्थः ॥ ८॥ इति चतुर्थाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ संप्रति प्रकृतेष्वग्न्यादिषु विराट्वमन्नत्वमत्तृत्वमिति त्रयमुपसंहरति-सैपेति । विराजो विधेयत्वात्तस्याश्च स्त्रीलिङ्गतया सैषेति विधेयलिङ्गभाजनम् । त एते प्रकृता देवा विरराडिल्यवगन्तव्या । सा च दशदेवतामिका दशसंख्यावती भवत्यन्नमिति देवतानामन्नत्वसिद्धिः । अन्नादीत्यस्य विराजा संबन्धादन्नादिनीति व्याख्यानम् । ततश्च देवतात्मिका विराट्कृतत्वेनान्नादिनीति तदात्मकानामग्न्यादीनामप्यत्तस्वसिद्धिरित्यर्थः । विराट्वेनान्नवं कृतत्वेनात्तत्वं चेति संपत्तिद्वयमग्न्यादौ दर्शितमुपसंहरति-कृते हीति । कृतोपलक्षिते द्यूते दशसंख्याऽन्तर्भूता प्रसिद्धा । सा चाग्न्यादौ दर्शिता । तथा च संख्यासामान्याद्द्यूतगतमत्तत्वमग्न्यादिषु संपाद्यते तेनेदं दशकमन्नादीत्युच्यते विराड्वेदे दशसंख्यावतीत्यु. क्तम् । सा चान्नं विराडन्नमित्युक्तत्वात् । ततश्च विराटसंपत्या भवति प्रकृतं दशकमन्नमित्यर्थः । सगुणं संवर्गदर्शनमुक्वा तत्फलं वक्तुं विद्वत्स्वरूपं संगिरते-तथेति । यथाऽन्या. दीनां विराट्वेनान्नत्वं कृतत्वेन चान्नादत्वं तथा वायुमग्न्याद्यात्मकं प्राणं च वागाद्यात्मक मेकीकृत्याऽऽत्मत्वेन विद्वान्दशदेवतास्वरूपभूत: सन्दशसंख्यया विराट्वेनान्नं कृतशब्दितयुग तगतदशसंख्यावच्छिन्नतया कृतत्वेनान्नादी भवतीत्यर्थः । फलोक्त्युपयोगित्वेनार्थान्तरमाह-- तयति । कृतोपलक्षितचूतस्थसंस्पावच्छिन्नत्वेनीवस्थितयाऽनत्वेनान्नादित्वेन व्यवस्थि. १ क. ख. घ. ङ. अ. ट. ठ. ण. नादि । २ व. इ. ठ. ड. ढ. ण. च्या विद्यतेऽ त । ३ घ. ल. ठ. ढ. दिवस्थं दृ । ४ क. ख. ग. प. उ. च. न.ट, ड. द. वंय। ५ क. ख्यातम् । ६ ग. छ. उ. नाऽऽस्थि ।