पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२११ चतुर्थःखण्डः ४] छान्दोग्योपनिषत् । तया सर्वमिदं जगद्दशसु दिक्षु संस्थितं दृष्टमुपलब्धं भवति न हि देवतादशकं हित्वा जगन्नाम किंचिदस्ति तथा च दृष्टे देवतादशके दृष्टमेव सर्वं जगद्भवेदित्यर्थः । भूमिकामेवं कृत्वा विद्याफलं दर्शयति-एवंविद इति । वायुं प्राणमत्तारमात्मत्वेन पश्यतः कृतसंख्यावच्छिन्नतया स्थितस्य दशदेवताभूतस्य सर्व जगदृष्टं भवति । दृष्टदेवतातिरितस्य जगतोऽभावादित्यर्थः । यो यथोक्तदर्शी प्राणो भूत्वा सर्वत्रान्नादश्च भवतीति फलान्तरम् ॥ ८॥ इति चतुर्थाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ ___(अथ चतुर्थाध्यायस्य चतुर्थः खण्डः ) सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वह मस्मीति ॥ १ ॥ सर्व वागाद्यग्न्यादि चान्नान्नादत्वसंस्तुतं जगदेकीकृत्य षोडशधा पविभज्य तस्मिन्ब्रह्मदृष्टिर्विधातव्येत्यारभ्यते । श्रद्धातपसोब्रह्मोपासनाङ्गत्वप्रदर्शनायाऽऽ. ख्यायिका । सत्यकामो ह नामतो हशब्द ऐतिह्यार्थों जबालाया अपत्यं जाबालो जबालां स्वां मातरमामन्त्रयांचा आमन्त्रितवान् । ब्रह्मचर्य स्वाध्यायग्रहणाय हे भवति विवत्स्याम्याचार्यकुले, किंगोत्रोऽहं किमस्य मम गोत्रं सोऽहं किंगोत्रो न्वहमस्मीति ॥ १॥ पूर्वेण संबन्धं दर्शयितुमुत्तरस्य तात्पर्यमाह-सर्वमिति । एकीकृत्य कारणरूपेणक्यमादायेत्यर्थः । तर्हि तस्मिन्ब्रह्मदृष्टिरेव विधीयतां किमित्याख्यायिका प्रणीयते तत्राऽऽह-श्रद्धातपसोरिति । ब्रह्मचर्यवासस्योद्देश्यं फलं दर्शयति--स्वाध्यायति । आचार्यो हि माणवकमुपनयते विज्ञातकुलगोत्रमेवेति मन्वानः पृच्छति-किंगोत्रोऽ. हमिति ॥ १॥ सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमास बह्वहं चरन्ती परिचारिणी यौवने त्यामलो साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रुवीथा इति ॥ २॥ १ ख. ञ. सर्वमिदं ज । २ ख. घ. ण, ङ, न. ढ. ण. नार्थमाख्या । ३ . 'देश्यफ !